This page has not been fully proofread.

( v )
 
तयोमंहनीयतां व्यनक्ति । परमतीवोपयोगिनोरप्यनयोः शास्त्रयो) विषया
यत्र तत्र तथा विकीर्णा यथा तेषां समेषामाकलनं पण्डितानामपि
कठिनायते । बहोः कालाद् विपश्चितो विविदिषवश्चैवं कामयमाना आसन्
यत् काचनेदृशी कृतिरत्यन्तमावश्यकी यया साङ्ख्ययोगयोः विषयाः
पारिभाषिका: शब्दाश्च सम्यक्तया प्रमातुं पार्येरन् । पण्डितप्रवरेण
श्रीकेदारनाथत्रिपाठिमहोदयेन साङ्ख्ययोगकोशनामानं ग्रन्थं निर्माय
विदुषां चिराकाङ्क्षायाः पूर्तिः कृता । श्रीत्रिपाठिनः कार्यमिदमत्यपूर्व
प्रामाणिकं काशीहिन्दू विश्वविद्यालये तत्प्रसाध्यमानस्य दर्शनविभागा-
ध्यक्षपदस्यानुरूपञ्च ।
 
विश्वसिमि, श्रीत्रिपाठिनः प्रतिभापरिश्रमयोर्योगेन प्राप्तप्रसवःप्रबन्ध
एष विपश्चिदपश्चिमानामपि महते मोदाय कल्पेत ।
 
T-R. V. Murti
 
Eminent Professor of Philosophy
Banaras Hindu University (Retd)
 
बदरीनाथशुक्लः
 
१५-७-७४
 
46 A, Ravindra Puri ( Newcalony )
Varanasi
-- 5
 
August 17,
 
1974
 
ग्रन्थद्वयमिदं सांख्ययोगकोशाख्यं बिद्वद्वरेण श्रीकेदारनाथ त्रिपाठिना
निपुणतरं निवद्धमिति प्रतिभाति । सांख्ययोगदर्शनशास्त्रीया विषया
सर्वे साकल्येन लक्षणकल्पैः सारवद्भिः स्वल्पाक्षरैर्यथाशास्त्रं विशदीकृता
वर्तन्तेऽत्र ।
बहुषु स्थलेषु वाचस्पति विज्ञानभिक्षु-भोज-नागोजोभट्ट-
प्रभृतीनां मतभेदाः सप्रमाणमुपन्यस्ताश्च सन्ति । सुधियां दार्शनिकानां