साङ्ख्य-योग-कोशः /129
This page has been fully proofread once and needs a second look.
एवं तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु
वा तपस्विषु कृतात् पुनः पुनरपकारात् परिनिष्पन्नपापकर्माशय।
सद्य इहैव जन्मनि परिपच्यते, सोऽपि दृष्टजन्मवेदनीयः । यथा
नन्दीश्वरः तस्मिन्नेव जन्मनि देवत्वेन परिणतः, नहुषश्च तिर्यक्त्वेन
परिणत इति । ( द्र० यो० मा० पा० २ सू० १२ ) ।
दृष्टविषयः, दृष्टविषय
स्त्रियोऽन्नपानमैश्वर्यं मिति दृष्टविषयः ।
दौर्मनस्यम् , दौर्मनस्य
इच्छाविघाताच्चेतसः क्षोभो दौमनस्यम् ।
द्रव्यम् , द्रव्य
सामान्य विशेषसमुदायोऽत्र दर्शने द्रव्यमुच्यते । येपि वैशेशिका
सामान्य विशेषाश्रयो द्रव्यमिति मन्यन्ते तैरपि तत्समुदायोऽनुभूयमानो
नापहनोतुं शक्यः । न वा तत्समुदायापह्नवे तदाश्रयो द्रव्यमिति
भवेत् । तस्मात् सामान्यविशेषयोः समुदाय एवास्तु द्रव्यम् ।
न हि वयं ताभ्यां तयोः समुदायाच्चातिरिक्तं तदाधारं द्रव्यमुपल-
मामहे, यथा ग्रावभ्यो ग्रावसमुदायाच्च पृथग्विधं तदाधारमपरं
गिरिशिखरं नोपलभामहें, तद्वत् । अतोऽत्र दर्शने सामान्य विशेष-
समूह एव द्रव्यम् ( द्र० यो० मा० त० वै० पा० ३ सू० ४४ ) ।
विज्ञानभिक्षस्तु – अत्र दर्शने सामान्य विशेषयोः समूहो द्रव्यमिति
व्याचक्षाणः वैशेषिकोक्तं सामान्य विशेषाश्रयत्वं द्रव्यस्य स्वीकुर्वन्
सामान्य विशेषाभेदमपि ततोऽधिकं स्वीकरोति । अतएवोक्तं तेन-
अतिरिक्तावयव्यभ्युपगमेऽपि तयोरवयवावय विनोरभेदस्याप्यभ्युप-
गमात् । अन्यथा घटो मृत् तन्तु: पट:, शुक्ल: पट इत्याद्यभेद-
प्रत्ययानुपपत्तेरित्याह । ( द्र० यो० वा० पा० ३ सू० ४४ ) ।
द्वन्द्वानि, द्वन्द्व – सुखदुःखयोर्हेतुभूतानि शीतोष्ण, लाभालाभ, जयाजयादीनि
द्वन्द्वानि सन्ति ।
द्वेषः, द्वेष
दुःखमनुशेते जायते इति दुःखानुशयी द्वेषः । उक्तं च माध्ये—
दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो
मन्युजिघांसा क्रोधः स द्वेष इति । प्रतिघः = प्रतिशोधात्मक
इत्यर्थः । प्रतिधः = उद्वेजक इति विज्ञानभिक्षुः । भाष्ये जिघांसेति
सन्नन्तवचनाद् द्वेषोऽपीच्छाविशेष एवेति ।