This page has been fully proofread once and needs a second look.

योगकोशः
 
एवं तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु

वा तपस्विषु कृतात् पुनः पुनरपकारात् परिनिष्पन्नपापकर्माशय।

सद्य इहैव जन्मनि परिपच्यते, सोऽपि दृष्टजन्मवेदनीयः । यथा

नन्दीश्वरः तस्मिन्नेव जन्मनि देवत्वेन परिणतः, नहुषश्च तिर्यक्त्वेन

परिणत इति । ( द्र० यो० मा० पा० २ सू० १२ ) ।

 
दृष्टविषयः, दृष्टविषय
स्त्रियोऽन्नपानमैश्वर्यं मिति दृष्टविषयः ।

 
दौर्मनस्यम् , दौर्मनस्य
इच्छाविघाताच्चेतसः क्षोभो दौमनस्यम् ।

 
द्रव्यम् , द्रव्य
सामान्य विशेषसमुदायोऽत्र दर्शने द्रव्यमुच्यते । येपि वैशेशिका

सामान्य विशेषाश्रयो द्रव्यमिति मन्यन्ते तैरपि तत्समुदायोऽनुभूयमानो

नापहनोतुं शक्यः । न वा तत्समुदायापह्नवे तदाश्रयो द्रव्यमिति

भवेत् । तस्मात् सामान्यविशेषयोः समुदाय एवास्तु द्रव्यम् ।

न हि वयं ताभ्यां तयोः समुदायाच्चातिरिक्तं तदाधारं द्रव्यमुपल-

मामहे, यथा ग्रावभ्यो ग्रावसमुदायाच्च पृथग्विधं तदाधारमपरं

गिरिशिखरं नोपलभामहें, तद्वत् । अतोऽत्र दर्शने सामान्य विशेष-

समूह एव द्रव्यम् ( द्र० यो० मा० त० वै० पा० ३ सू० ४४ ) ।

विज्ञानभिक्षस्तु – अत्र दर्शने सामान्य विशेषयोः समूहो द्रव्यमिति
-

व्याचक्षाणः वैशेषिकोक्तं सामान्य विशेषाश्रयत्वं
द्रव्यस्य स्वीकुर्वन्
सामान्य विशेषाभेदमपि ततोऽधिकं स्वीकरोति ।
अतएवोक्तं तेन-
अतिरिक्तावयव्यभ्युपगमेऽपि
तयोरवयवावय विनोरभेदस्याप्यभ्युप-
गमात् । अन्यथा घटो मृत् तन्तु: पट:, शुक्ल: पट इत्याद्यभेद-

प्रत्ययानुपपत्तेरित्याह । ( द्र० यो० वा० पा० ३ सू० ४४ ) ।

 
द्वन्द्वानि, द्वन्द्व – सुखदुःखयोर्हेतुभूतानि शीतोष्ण, लाभालाभ, जयाजयादीनि

द्वन्द्वानि सन्ति ।
 
द्रव्यस्य स्वीकुर्वन
अतएवोक्तं तेन-
तयोरवयवावय विनोरभेदस्याप्यभ्युप-
४९
 

 
द्वेषः, द्वेष
दुःखमनुशेते जायते इति दुःखानुशयी द्वेषः । उक्तं च माध्ये—

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो

मन्युजिघांसा क्रोधः स द्वेष इति । प्रतिघः = प्रतिशोधात्मक

इत्यर्थः । प्रतिधः = उद्वेजक इति विज्ञानभिक्षुः । भाष्ये जिघांसेति

सन्नन्तवचनाद् द्वेषोऽपीच्छाविशेष एवेति ।
 
-