This page has been fully proofread once and needs a second look.

लभ्यमानं वचनं न परस्परं विरुध्यते, दिगाकाशयोरेकत्वात्
( द्र० यो० वा० पा० ३ सू० ५२ ) ।
 
दुःखम् , दुःख
येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते तदुःखमिति
योगभाष्यम् । एतावता प्रतिकूलवेदनीयं दुःखमिति सामान्यलक्षणं
सूचितं भवति । तच्च त्रिविधम् - आध्यात्मिकम् व्याधिवशात् शारीरम्,
कामादिवशाच्च मानसमिति द्विप्रकारम् । आधिभौतिकं व्याघ्रादि-
जनितम् । आधिदैविकम् ग्रहपीडादिजातमिति । ( द्र० यो० भा०
त० वै० पा० १ सू० ३१ ) ।
 
दृक्शक्तिः, दृक्शक्ति
पश्थतोति दृक् सैव शक्तिः, शक्तियक्तिमतोरभेदात् । तथा
च पुरुष एव दृक्शक्तिरित्युच्यते । अत्र शक्तिग्रहणेन द्रष्टृत्वस्य
मोक्तृत्वस्य योग्यता पुरुषे प्रतीयते । तेन प्रलयादौ मोगरूपफलोप-
धानाभावेऽपि न क्षतिः ।
 
दृश्यम् , दृश्य
प्रकाशशीलं सत्त्वम्, क्रियाशीलं रजः, स्थितिशीलं तमः,
इत्येतद्गुणत्रयं सूक्ष्मस्थूलभूतेन्द्रियभावेन परिणममानं भोगापवर्ग-
प्रयोजनकं दृश्यम् । एतावता सर्व कार्यकारणात्मकं त्रिगुणात्मकं
जगद् दृश्यमिति ज्ञेयम् । तथा च योगसूत्रम् - "प्रकाशक्रियास्थिति-
शीलं भूतेन्द्रियात्मकं भोगापवर्गाथं दृश्यम्" पा० २ सू० १८ ।
एतद् गुणत्रयमेव कार्यकारणभावापन्नं दृश्यमुच्यते, नास्ति ततोऽ-
तिरिक्तं दृश्यान्तरम् । एत एव च गुणा न्यायवैशेषिकाभ्यामात्मा-
तिरिक्त द्रव्याष्टकरूपेण विभज्यन्ते । वेदान्तिभिस्तु मायेत्युच्यते
'मायां तु प्रकृति विद्यादिति, श्रुतेरिति विज्ञानभिक्षुः ।' ( द्र० यो ०
वा० पा० २ सू० १८ ) ।
 
दृष्टजन्मवेदनीयः कर्माशयः, दृष्टजन्मवेदनीयः कर्माशय
तीव्रसंवेगेन मन्त्रतपः समाधि मिनिवर्तित
ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा परिनिष्पन्नः पुण्यकर्माशयः
सद्यः = इहैव जन्मनि परिपच्यते, स दृष्टजन्मवेदनीयः ।