This page has not been fully proofread.

योगकोशः
 
'दर्शनशक्तिः–दृश्यते इति दशनं = बुद्धिः सैव शक्तिर्योग्यता शक्ति-
शक्तिमतोरभेदात् । बुद्धिहि दृश्यतया भाग्या मोक्तुः द्रष्टुः पुरुषस्येति
बुद्धिगता भोग्यतैव दशनशक्तिरिति । पुरुषश्च भोक्तृत्वात् भोक्तृशक्ति-
हँुक्छक्तिरस्तीति । ( द्र॰ यो० भा० त० वै० पा० २ सू० ६ ) ।
दृश्यतेऽनेनेति दर्शनं = करणं बुद्धिः, प्रलयादी अव्यवसायरूपफलोप-
धानं नास्ताति शक्तिग्रहणम् इति विज्ञानमिक्षुः । विवरणकारोऽपि
अन्तःकरणस्याव्यवसायात्मिका या शक्तिः सैव दर्शनशक्तिरित्याह ।
दर्शनशक्तिः = रजस्तमोभ्यामनभिभूतः
सात्त्विक:
 
४७
 
भोजदेवस्तु
 
परिणामोऽन्त करणरूप इत्याह । तस्याश्च भोग्यत्वजडत्वादयो पुरुष-
विलक्षणाःवर्माः सन्तीति ! फलतो नेतेषु कश्चिद्भेदः ।
 
दिगाकाशयोरैक्यम् – आकाशादतिरिक्तं किमपि वस्तुभूतं दिक्तत्त्वं
वैशेषिकाद्यभ्युपगतं नास्ति । यथा वैशेषिकाद्यभ्युपगतं नित्यं कालतत्त्व-
मिह नास्ति, किन्तु क्षण एव काल इत्येतच्छास्त्रसिद्धान्तः । तथैव
नित्या दिगपि नास्ति प्रामाणिकी, लोके सामान्यतो दिग्व्यवहारा-
भावात् । ये च पूर्वपश्चिम दिविशेषव्यवहारा लोके दृश्यन्ते ते च
पराभ्युपगतदिगुपाधिभिरेवोपपञ्चन्ते । कालाच्च दिश्ययं विशेषो यत्
काल: क्षणरूप इष्यते, किन्तु दिक् सर्वथैव नेष्यते । शास्त्रेषु च यः
"दिशः" इत्याकारकदिक्सामान्यव्यवहारो दृश्यते स तु पूर्व-
'पश्चिमादिव्यवहारनियामकैरुपाधिमिरवच्छिन्नेन आकाशेनैव
 
बोध्यः । यदि दिग्व्यवहारमात्राद् दिक् पृथकृपदार्थ: स्यात् तदा
"घटस्य देश: मीनस्य देश" इत्यादिव्यवहारमात्रात् देशादिरणि
'पृथिवीजलादिभ्योऽतिरिक्त पदार्थ: स्यात् । किन्तु : घटमीनयो:
स्थित्याधारत्वेन पृथिवीजलाभ्यामेव देशव्यवहार उपपद्यते तथैव
पूर्वपश्चिमनियामकोपाध्यवच्छिन्ना का शेनव दिसामान्य व्यवहार
 
उपपादनीय इति दिगाकाशयोरैक्यमेवेति सिद्धान्तः । अतएव
श्रुत्यादिषु कुत्रचिदाकाशाच्छ्रोत्रं क्वचिच्च दिशः श्रोत्रमिति समुप-