This page has been fully proofread once and needs a second look.

कुर्यादर्थक्रियाञ्च कुर्यात् । तस्मादनित्यं त्रैलोक्यम् । तथापि
नेकान्ततोऽनित्यत्वमपि - तुच्छत्वमपि त्रैलोक्येऽस्ति, विनाश-
प्रतिषेधात् । तथाहि यत्तुच्छं न तत् कदाचिदपि उपलब्धिमर्थ-
क्रियाञ्च करोति, यथा गगनारविन्दम् । करोति चैतत् त्रैलोक्यां
कदाचिदप्यपलब्ध्यर्थक्रिये इति नैकान्तिकानित्यमपि त्रैलोक्यम् ।
नाप्यत्यन्तनित्यं त्रैलोक्यं येन चितिशक्तिवत् कूटस्थनित्यं स्यात् ।
किन्तु कथश्चित् नित्यम् । अतएव परिणामि । चितिशक्तिवदत्यन्त-
नित्यत्वे { कूटस्थनित्यत्वे ) तु अपरिणामि जगत् प्रसज्येतेति ।
( द्र० यो० मा० त० वै० पा० ३ सू० १३ ) ।