This page has been fully proofread once and needs a second look.

तद्गतिज्ञानम् , तद्गतिज्ञान
चन्द्रे संयमानन्तरं ध्रुवे संयभं कृत्वा ताराणां गति
जानाति योगी । ( द्र० यो० मा० पा० ३ सू० २८ ) ।
 
तद्धर्मानभिघातः, तद्धर्मानभिघात
स्थूल-स्वरूप- सूक्ष्मान्वयार्थवत्त्वेषु संयमाद्भूतजयो
भवति । तेन च भूतधर्मानभिघातरूपा सिद्धिर्जायते योगिनः । तया
पृथ्वी स्वमूर्त्या योगिनः शरीरादिक्रियां न निरुणद्धि, ततः शिला-
मप्यनुविशति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो दहति, न
वायु प्रणामिस्वभावो वहति शोषयति वा अनावरणात्म केऽण्याकाशे
आवृतकायो भवति, येन सिद्धानामप्यदृश्यो भवति । एवं भूतजयी -
योगी भूतधर्मैर्नाभिहन्यते इति । ( द्र, यो० भा० पा० ३ सू०
४५ ) । स्थूलादिस्वरूपश्च भूतजयप्रसङ्गे प्रतिपादयिष्यते ।
 
तपः, तपस्
रजस्तमः समुद्रेकरूपाया अशुद्धेनितान्तविरलतासम्पादकं देहेन्द्रिय--
शोषणं तपः । ( द्र० यो० मा० त० वै० पा० २ सू० १ ) ।
 
ताराव्यूहज्ञानम् , ताराव्यूहज्ञान
चन्द्रे संयमं कृत्वा ताराणाँ व्यूहं जानाति योगी ।
तथा च योगसूत्रम् –"चन्द्रे ताराव्यूहज्ञानम्" । इति । ( पा० ३
सू० २७ ) ।
 
तीव्रसंवेगः, तीव्रसंवेग
तीव्रश्चासौ संवेगश्च तीव्र संवेगः । संवेगो वैराग्यमिति तत्त्व-
वैशारदी, उपायानुष्ठाने शैध्यम् इति विज्ञानभिक्षुः, क्रियाहेतुहंढतर
संस्कार इति भोजवृत्तिः, साधनानुष्ठानं प्रत्युपक्रम इति विवरणम् ।
तथा च अधिमात्रोपायत्वे सति तीव्र संवेगो यो योगी तस्यासन्न
समाधिलाभः समाधिफलञ्च भवतीति । तथा च सूत्रम् "तीव्रसंवेगा-
नामासन्नः ।" ( पा० १ सू० २१ ) ।
 
त्रैलोक्ये ऐकान्तिकनित्यत्वानित्यत्वयोरभावः, त्रैलोक्ये ऐकान्तिकनित्यत्वानित्यत्वयोरभाव
चितिशक्तेरिव
त्रैलोक्यस्यैकान्तिकी नित्यता नास्ति । यतो हीदं त्रैलोक्यं
व्यक्तेः = अर्थक्रियाकारिणो रूपादपैति । प्रमाणेन नित्यत्व-
प्रतिषेधात् । यदि हि घटो व्यक्तेनपेियात् तदा कपालशकंरा-
चूर्णादिष्ववस्थासु अपि व्यक्तो घटो भवेत् इत्यतः पूर्ववत् उपलब्धि