This page has been fully proofread once and needs a second look.

योगकोशः
 
४५.
 
तद्गतिज्ञानम् , तद्गतिज्ञान
चन्द्रे संयमानन्तरं ध्रुवे संयभं कृत्वा ताराणां गति

जानाति योगी । ( द्र० यो० मा० पा० ३ सू० २८ ) ।

 
तद्धर्मानभिघातः - , तद्धर्मानभिघात
स्थूल-स्वरूप- सूक्ष्मान्वयार्थवत्त्वेषु संयमाद्भूतजयो

भवति । तेन च भूतधर्मानभिघातरूपा सिद्धिर्जायते योगिनः । तया

पृथ्वी स्वमूर्त्या योगिनः शरीरादिक्रियां न निरुणद्धि, ततः शिला-

मप्यनुविशति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो दहति, न

वायु प्रणामिस्वभावो वहति शोषयति वा अनावरणात्म केऽण्याकाशे

आवृतकायो भवति, येन सिद्धानामप्यदृश्यो भवति । एवं भूतजयी -

योगी भूतधर्मैर्नाभिहन्यते इति । ( द्र, यो० भा० पा० ३ सू०

४५ ) । स्थूलादिस्वरूपश्च भूतजयप्रसङ्गे प्रतिपादयिष्यते ।

 
तपः--, तपस्
रजस्तमः समुद्रेकरूपाया अशुद्धेनितान्तविरलतासम्पादकं देहेन्द्रिय--

शोषणं तपः । ( द्र० यो० मा० त० वै० पा० २ सू० १ ) ।

 
ताराव्यूहज्ञानम् – चन्द्रे संयमं कृत्वा ताराणाँ व्यूहं जानाति योगी ।
तथा च योगसूत्रम् –"चन्द्रे
, ताराव्यूहज्ञान
चन्द्रे संयमं कृत्वा ताराणाँ व्यूहं जानाति योगी ।
तथा च योगसूत्रम् –"चन्द्रे ताराव्यूहज्ञान
म्" । इति । ( पा० ३

सू० २७ ) ।
 

 
तीव्रसंवेगः-, तीव्रसंवेग
तीव्रश्चासौ संवेगश्च तीव्र संवेगः । संवेगो वैराग्यमिति तत्त्व-

वैशारदी, उपायानुष्ठाने शैध्यम् इति विज्ञानभिक्षुः, क्रियाहेतुहंढतर

संस्कार इति भोजवृत्तिः, साधनानुष्ठानं प्रत्युपक्रम इति विवरणम् ।

तथा च अधिमात्रोपायत्वे सति तीव्र संवेगो यो योगी तस्यासन्न

समाधिलाभः समाधिफलञ्च भवतीति । तथा च सूत्रम् "तीव्रसंवेगा-

नामासन्नः ।" ( पा० १ सू० २१ ) ।
 
IL
 

 
त्रैलोक्ये ऐकान्तिकनित्यत्वानित्यत्वयोरभावः, त्रैलोक्ये ऐकान्तिकनित्यत्वानित्यत्वयोरभाव
चितिशक्तेरिव

त्रैलोक्यस्यैकान्तिकी नित्यता नास्ति । यतो हीदं त्रैलोक्यं

व्यक्तेः = अर्थक्रियाकारिणो रूपादपैति । प्रमाणेन नित्यत्व-

प्रतिषेधात् । यदि हि घटो व्यक्तेनपेियात् तदा कपालशकंरा-

चूर्णादिष्ववस्थासु अपि व्यक्तो घटो भवेत् इत्यतः पूर्ववत् उपलब्धि