This page has been fully proofread once and needs a second look.

ज्योतिष्मती प्रवृत्तिः, ज्योतिष्मती प्रवृत्ति
उदरोरसोर्मंध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं,
तद्रेचकप्राणायामेनोर्ध्वंमुखं कृत्वा तत्र चित्तं धारयेत् । तन्मध्ये
मुर्यमण्डलमकारी जागरतिस्थानम् तस्योपरि चन्द्रमण्डलमुकार
स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम्,
तस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमधँमात्रमुदाहरन्ति
· ब्रह्मवादिना ।
तत्र कणिकाया मूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी । ततोऽ-
प्यूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी, तथा खलु बाह्यान्यपि सूर्यादीनि
प्रोतानि । सैव चित्तस्य = मजसः स्थानम् तस्यां धारणां कुर्वतो
योगनश्चित्तसंविदुत्पद्यते । सा च बुद्धिसंवित् सूर्येन्दुग्रहमणीनां
प्रभारूपाकारेण नानारूपा भवति । इयमेका विशोका = दुःखरहिता
प्रकाशरूपा ज्योतिष्मती प्रवृत्तिः । अत्र च बुद्धिरिति वैकारिका-
"हङ्कारकार्यं मनोऽभिप्रेतम् न तु महत्तत्वम् ।
तथाऽस्मितायां धारणां कुर्वतो योगिनश्चित्तं निस्तरङ्गमहोदधिकल्पं
शान्तमनन्तमस्मितामात्रं भवति । अत्रापि विधूतरजस्तमोमलाऽ-
स्मितैव सत्त्वमयी ज्योतिरस्तीति अस्मितामात्रा प्रवृत्तिरपि द्वितीया
'ज्योतिष्मती प्रवृत्तिरुच्यते ।
अनया द्विविधयाऽपि विशोकया ज्योतिष्मत्या प्रवृत्त्या योगिनश्चित्तं
स्थितिपदं लभते । ( द्र० यो० मा० त० वै० पा० १ सू० ३६) ।