साङ्ख्य-योग-कोशः /123
This page has been fully proofread once and needs a second look.
इत्यादि वाक्यानि अङ्गाङ्गिनोरीत्सर्गिक सहानुष्ठानपराण्येव सन्ति नः
तु मोक्षं प्रति समुच्चयसाधकानि । ( द्र० यो० वा० पा० ३.
सू० ७ ) ।
ज्ञानस्य सप्तभूमयः, ज्ञानस्य सप्तभूमि
ज्ञानभूमि: शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया स्यात् तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका ।
परार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ॥
इति योगवाशिष्ठम् ।
तत्र -
शुभेच्छा, शुभेच्छा
तीव्रमुमुक्षा ।
विचारणा, विचारणा
श्रवणमननात्मका ।
तनुमानसा, तनुमानसा
निदिध्यासनरूपा । इमास्तिस्रः साधनभूमिका: । आसु
भूमिषु साधक इत्युच्यते ।
सत्त्वापत्तिः, सत्त्वापत्ति
अहं ब्रह्मास्मीत्याकारिकाऽपरोक्षवृत्तिरूपा चतुर्थी
फलभूमिरियम् । इयं सम्प्रज्ञातयोगभूमिका । अस्यां योगी ब्रह्म-
विदित्युच्यते ।
असंसक्तनामिका, असंसक्तनामिका
सत्त्वापत्तिभूमौ उपस्थितासु सिद्धिषु असं-
सक्तता । अस्यां योगी स्वयमेव व्युत्तिष्ठते । इमां भूमि प्राप्तो ब्रह्म-
विद्वर इत्युच्यते ।
परार्थाभाविनी, परार्थाभाविनी
यस्यां भूमौ परब्रह्मातिरिक्तमर्थं न भावयति
सा परार्थाभाविनी । अस्यां योगी परप्रबोधित एव व्युत्तिष्ठते । एतां
प्राप्तो योगी ब्रह्मविद्वरीयानित्युच्यते ।
तुर्यगा, तुर्यगा-अस्यां योगी स्वतः परतो वा न व्युत्थानं प्राप्नोति ब्रह्मविद्व-
रिष्ठथोच्यते । ( द्र० ह० यो० प्र० उप० १ इलो० ३ ज्योत्स्ना-
व्याख्या ) ।