This page has been fully proofread once and needs a second look.

सन्नतमयोगोत्पादनार्थंमभ्यासस्यातितीव्रत्वमपेक्षते, परमात्मप्रज्ञा तु
नापेक्षते इति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १
सू० २३ ) ।
 
जीवानां गौणमात्मत्वम् , जीवानां गौणमात्मत्व
व्यावहारिकपारमार्थिक भेदेन आत्मा
द्विविधः । पारमार्थिक आत्मा परमात्मैव । जीवात्मा तु व्याव-
हारिक एवात्मा । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं
बुद्ध्याद्यापेक्षिकश्च । यद्यपि जोवो मुख्यात्मा न भवति तथापि
तज्ज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोक्षो भवत्येव ।
एवमेव व्यवहारपरमार्थभेदात् एकात्मनानाऽऽत्मतावादौ श्रुतिस्मृति--
दर्शनेष्व विरुद्धाविति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १
सू० २८ ) ।
 
ज्ञानकर्मणोः मोक्षे तुल्यवत् समुच्चयाभावः, ज्ञानकर्मणोः मोक्षे तुल्यवत् समुच्चयाभाव
"विद्यां चाविद्यां
च यस्तद्वेदोमयं सह, अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते"
इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तम् । तत्राङ्गाङ्गिनोः कर्मज्ञान-
योरौत्सगिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले सम्पादनीये
तयोः तुल्यवत् समुच्चय: । "अविद्यया मृत्युं तीर्त्वा" इत्यनेन
ज्ञानविप्लव निवृत्त्याख्यमृत्युतरणद्वारेण मोक्षदायिन्यां विद्यायामेक
कमंण उपयोगावगमात् । अतः -
"न केवलेन योगेन प्राप्यते परमं पदम् ।
ज्ञानं तु केवलं सम्यगपवर्गप्रदायकम् ॥"
इत्यादिवाक्यैर्योगपदोक्तकर्मनिरपेक्षाद् ज्ञानादपि मोक्षसिद्धिरुच्यते ।
कर्मणां ज्ञानाङ्गत्वन्तु पूर्वजन्मन्यनुष्ठितानामपि जडभरतादिषु सिद्धम् ।
एवं सति-
"समाभ्यामेव पक्षाभ्यां यथा से पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥