This page has been fully proofread once and needs a second look.

कल्पशतेन वा व्यवहिता वर्तते तथापि मार्जारादिविपाकानुगुणं
कर्मातिव्यवहितानामपि मार्जारादिवासना नामभिव्यञ्जकं भविष्यति ।
अतो जातिदेशकालव्यवहितानामपि वासनानां निमित्तनैमित्तिक-
'भावानुच्छेदादानन्तर्यमेवास्ति अव्यवहितवत् कार्यकारि च भवति,
अन्यथा कर्मफलानुपपत्तेः । स्मृतिसस्कारयोरेक रूपत्वनियमादिति
सिद्धान्तः । ( द्र० यो० भा० त० वै० तथा यो० वा० पा० ४
सु० ९ ) ।
 
जीवन्मुक्त:, जीवन्मुक्त
अविद्यादिक्लेशानां कुशलाकुशलादिकर्माशयानाञ्च निवृत्ती
सत्यां जीवन्नेव विद्वान् विमुक्तो भवति भाविजन्मादिरहितो भवति ।
अयमेव जीवन्मुक्त: । (द्रव्यो० मा० त० वे० पा० ४ सू० ३० )।
अत्र विज्ञानभिक्षुः – अभिनिवेशातिरिक्ता एव क्लेशा: प्रारब्धाति-
रिक्ता एव च कर्माशया जीवन्मुक्तस्य निवृत्ता भवन्ति । "स्वर-
सवाही विदुषोऽपि तथारू ढोऽभिनिवेश:" इति सूत्रानुसारात् प्रारब्ध
कर्मणां भोगेर्नवासंप्रज्ञातयोगेनैव वा क्षयस्य श्रुत्यादी प्रतिपाद-
नाच्च । ( द्र० यो० वा० पा० ४ सू० ३० ) ।
 
जीवात्मपरमात्मप्रज्ञयोर्योगमोक्षहेतुत्वम् , जीवात्मपरमात्मप्रज्ञयोर्योगमोक्षहेतुत्व
जीवात्मप्रज्ञा परमात्म-
प्रज्ञा च उभे अपि प्रज्ञे देहायभिमाननिवर्तकत्वेन परवैराग्यद्वारा
समाधि तत्फलं मोक्षं च सम्पादयतः । अयन्तु विशेषः - परमात्मप्रज्ञा
हि अतितीव्राभ्यासं विनाऽपि आसन्नतमयोगहेतुतया मोक्षहेतुतया च
जीवात्मप्रज्ञापेक्षया श्रेष्ठा । अत एव श्रुतिस्मृतीतिहासादिषु प्रायशो
ब्रह्मज्ञानमेव मोक्षहेतुतयोपदिश्यते, कदाचिदेव तु स्वातन्त्र्येण जीव-
तत्त्वज्ञानमिति । यदि चोमयोरेव तुल्थवविकल्प: स्यात्तर्हि "तमेव
विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय तमेवैकं जानथ
आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतु" रित्यादिश्रुतयो
व्याकुप्येरन् । परमात्मप्रज्ञाया मुख्यकल्पत्वे तु उक्तवाक्यांनि मुख्य-
साधनपरतयोपपद्यन्त इति । जोवात्मप्रज्ञाया अनुकल्पत्वेनैव साऽऽ-