This page has been fully proofread once and needs a second look.

न्यग्रोधधानाया न्यग्रोधतरुमावश्च, वह्निकणिकायास्तृणराशिनि-
वेशिताया वा प्रोद्भवज्ज्वाला सहस्रसमालिङ्गितगगनमण्डलवं च
प्रकृत्यापूरादेव भवति । द्र० यो० मा० त० वै० पा० ४ सू० २) ।
एतेन वामनाद्यवताराणां क्षणादेव त्रिभुनवव्यापित्व विश्वरूपत्वादिकं
मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनञ्च प्रकृत्यापूरेण भवतीति
बोध्यम् । आपूर इत्युपलक्षणम् । अतो जात्यन्तरपरिणाम: प्रकृत्यप -
सारणेनापि भवति । अत एवागस्त्यादीनां समुद्रपानादिकं तोयादि-
कृत्यपसारणेन जातम् । एवमणिमादिरूपपरिणामविशेषश्च प्रकृत्य-
पगमाद् भवतीति बोध्यम् । एवमेव परमेश्वरः क्षणेनैव प्रकृत्या-
पूरापसारणादिभिर्जगदन्यथयितुमुत्पादयितुं प्रविलापयितुं वा
स्वसङ्कल्पात् शक्नोतोति विज्ञानभिक्षुः । (द्र० यो० वा० तत्रेव ) ।

जात्यादिभिर्व्यवहितानामपि वासनानां स्मृत्यादिजनने आनन्तर्य
भवत्येव — यदि कश्चिन्मनुष्यभावमनुभूय मृतस्तथा मरणानन्तरम्
मार्जारभावमधिगतो जन्म गृहीतवान् अथवा एकस्मिन् देशे मृत्वा
दूरदेशान्तरे जन्म गृहीतवान्, अथवा एकस्मिन् काले मृत्वा कल्प-
शतव्यवधानेन जन्म गृहीतवान् तदा तस्य प्राणिनोऽव्यवहिततया
मनुष्यवासनाया एवाभिव्यक्त्या भवितव्यम् । तथा च मार्जारो
भूत्वाऽपि अनन्तरतया मानवोचितामेव स्मृति क्रियाञ्च कुर्यात् न तु
अनेकजन्मव्यवधानेन पूर्वानुभूतमार्जारभाववासनाऽभिव्यज्येत न वा
मार्जारोचितां स्मृति क्रियाञ्च कुर्यात् । न खल्वस्ति संभवो यदन-
न्तरदिवसानुभूतं न स्मर्यंते व्यवहतदिवसानुभूतञ्च स्मर्यंत इति ।
एवं मरणानन्तरं दूरदेशे गृहीतजन्मतया बहुदेशव्यवहिता वासना
नाभिव्यज्येरन् तथा कस्यचित् कर्मणः विपाकरूपेण कल्पशतव्यव-
धानेन यदि कश्चित् मार्जारादिभावं प्राप्नोति तदा तस्यापि कल्पशत-
व्यवहिताः पूर्ववासना नाभिव्यज्येरन्नित्येवमाद्याशङ्का न करणीया ।
यतो हि मार्जारादिवासना यद्यपि मनुष्यादिनानाजात्या, दूरदेशेन,