This page has not been fully proofread.

(
 
iv )
 
विदुषां सम्मतयः
 
काशी हिन्दू विश्वविद्यालये संस्कृतमहाविद्यालयस्य
भूतपूर्वाध्यक्षाणां गुरुवर्याणां पण्डितराज-
श्रीकालीप्रसाद मिश्रमहानुभावानाम्-
न्यायवेदान्तसांख्ययोगाचार्या : पण्डितप्रवरा : श्रीकेदारनाथ त्रिपाठिनो
महता श्रमेण सांख्ययोगशास्त्रयोस्तत्तच्छास्त्रीयपारिभाषिकशब्दैस्सहैतयोः
सिद्धान्तञ्च पृथक्कृत्य कोशद्वयमभिनवं परमोपकारकं प्रणीतवन्तः ।
यद्यप्यस्य ग्रन्थस्यावलोकनाय प्रचुरसमयस्यासीदपेक्षा किन्तु नवीनकृति-
तल्लजस्यास्य दर्शनेन जातकुतूहलोऽहं त्वरितं त्रिचतुरस्थलविशेषेषु
सोत्कण्ठं दृष्टि प्रसायं ग्रन्थकर्तुरस्य विवेचनापद्धति निभाल्य नितान्तप्रमोद-
मनुभवन्नहं ग्रन्थेनानेन दर्शनशास्त्रं प्रविविक्षूणां महान्तमुपकारं प्रत्येमि
शुभाशिषा चैनमभियोजयामि ।
 
कालीप्रसाद मिश्रः
 
२०।८।७४
 
वाराणसेयसंस्कृतविश्वविद्यालये न्यायवैशेषिकविभागा-
ध्यक्षपदमलङ्कुर्वतां पण्डितराजश्रीबदरीनाथ-
शुक्लमहाभागानाम्-
दर्शनशास्त्रं भारतस्य मनीषाया रमणीयतमः परिणामः । तत्र
साङ्ख्यशास्त्रं योगशास्त्रश्चातिप्राचीन मध्यात्मविद्यायाः प्राणभूतञ्च ।
साङ्ख्यशास्त्रं महर्षिकपिलप्रणीतं संस्कृतवाङ्मये
 
बहुत्र वैपुल्येन
प्रसृतम् । योगशास्त्रमपि महर्षिपतञ्जलिप्रणीतमनेकत्र संस्कृतसाहित्ये
सुसन्हब्धम् । द्वयोरनयोरेष संस्कृतवाङ्मयव्यापी प्रसारः स्पष्टमेव