This page has been fully proofread once and needs a second look.

योगकोशः
 
३९
 
जगत्सृष्टौ परमात्मनो भूतानुग्रहः प्रयोजनम् - , जगत्सृष्टौ परमात्मनो भूतानुग्रहः प्रयोजन
भूतानां = प्राणि-

नाम् अनुग्रहः एव जगत्सृष्टौ परमात्मनः प्रयोजनम् । यतो हि

शब्दाद्युपभोगविवेकख्यातिरूपकार्यद्वयकरणात् किल चित्तं चरितार्थं

सन्निवर्तते । चित्ते निवृत्त पुरुष: केवली भवति । अतस्तत्प्रयोजनाय

कारुणिको भगवान् विवेकख्यात्युपायं कथयति । अतो यावत्पर्यन्तं

जन्तूनां विवेकख्यातिनं जायते तावत्पर्यन्तं चित्तस्याचरितार्थत्वात्

ईश्वरो जन्तूनां पुण्यापुण्यसहाय: सन् सुखदुःखे भावयन्नपि नाका-

रुणिक: किन्तु सानुग्रह एव । ( द्र० यो० वा० पा० १ सू० २५ ) ।

 
जातिलक्षणदेशैरन्यतावच्छेदः-
:–
, जातिलक्षणदेशैरन्यतावच्छेद
यत्र देशसारूप्यं लक्षणसारूप्यञ्च

वर्तते तत्र जात्येव अन्यताया अवच्छेदो = ज्ञानं भवति, यथा

गोरियं वडवेयमिति ।
 
-
 

एवं यत्र तुल्यदेशत्वं तुल्यजातीयत्वञ्च स्तः तत्र लक्षणमेवान्यत्वं

प्रत्याययति । यथा कालाक्षी गौः स्वस्तिमती गौरिति ।
 

एवं यत्र द्वयारामलकयोजतिसारूप्यं लक्षणसारूप्यञ्च स्तस्तत्र

देशभेद एवान्यत्वकर इदं पूर्वमिदमुत्तरमिति ।
 

यदा तु पूर्वमाममलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेशे उपावत्यते तदा

तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागो न भवति, अतस्तत्रत्यतत्त्व-

ज्ञानाय योगभाष्ये उक्तम् 'ततः प्रतिपत्तिः विवेकजज्ञानादिति" ।

( पा० ३ सू० १३ ) ।
 
ज(

 
जा
त्यन्तरपरिणामः, जात्यन्तरपरिणाम
मनुष्यजातिपरिणतानां कायेन्द्रियाणां जन्मौ

षधिप्रभृतिजन्यसिद्धिभिर्यो देवतर्थंग्जातिपरिणामः स
 
खलु
 

प्रकृत्यापूराद् भवति, न सङ्कल्पमात्रेण । तत्र कायस्य प्रकृति:

पृथिव्यादीनि भूतानि, इन्द्रियाणां प्रकृतिरस्मिता । अतो भूताना-

मस्मितायाश्च अवयवानुप्रवेश एवापूर उच्यते । तथा च भूतावयवानु-

प्रवेशादेव कायो वर्धते, अस्मितावयवानुप्रवेशादेव चेन्द्रियाणि

वर्धन्ते । इत्थमेव शरीरस्य बाल्यकौमारयौवनवाधंकादीनि,