This page has not been fully proofread.

योगकोशः
 
३९
 
जगत्सृष्टौ परमात्मनो भूतानुग्रहः प्रयोजनम् - भूतानां = प्राणि-
नाम् अनुग्रहः एव जगत्सृष्टौ परमात्मनः प्रयोजनम् । यतो हि
शब्दाद्युपभोगविवेकख्यातिरूपकार्यद्वयकरणात् किल चित्तं चरितार्थं
सन्निवर्तते । चित्ते निवृत्त पुरुष: केवली भवति । अतस्तत्प्रयोजनाय
कारुणिको भगवान् विवेकख्यात्युपायं कथयति । अतो यावत्पर्यन्तं
जन्तूनां विवेकख्यातिनं जायते तावत्पर्यन्तं चित्तस्याचरितार्थत्वात्
ईश्वरो जन्तूनां पुण्यापुण्यसहाय: सन् सुखदुःखे भावयन्नपि नाका-
रुणिक: किन्तु सानुग्रह एव । ( द्र० यो० वा० पा० १ सू० २५ ) ।
जातिलक्षणदेशैरन्यतावच्छेदः-
:– यत्र देशसारूप्यं लक्षणसारूप्यञ्च
वर्तते तत्र जात्येव अन्यताया अवच्छेदो = ज्ञानं भवति, यथा
गोरियं वडवेयमिति ।
 
-
 
एवं यत्र तुल्यदेशत्वं तुल्यजातीयत्वञ्च स्तः तत्र लक्षणमेवान्यत्वं
प्रत्याययति । यथा कालाक्षी गौः स्वस्तिमती गौरिति ।
 
एवं यत्र द्वयारामलकयोजतिसारूप्यं लक्षणसारूप्यञ्च स्तस्तत्र
देशभेद एवान्यत्वकर इदं पूर्वमिदमुत्तरमिति ।
 
यदा तु पूर्वमाममलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेशे उपावत्यते तदा
तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागो न भवति, अतस्तत्रत्यतत्त्व-
ज्ञानाय योगभाष्ये उक्तम् 'ततः प्रतिपत्तिः विवेकजज्ञानादिति" ।
( पा० ३ सू० १३ ) ।
 
ज(त्यन्तरपरिणामः – मनुष्यजातिपरिणतानां कायेन्द्रियाणां जन्मौ
षधिप्रभृतिजन्यसिद्धिभिर्यो देवतर्थंग्जातिपरिणामः स
 
खलु
 
प्रकृत्यापूराद् भवति, न सङ्कल्पमात्रेण । तत्र कायस्य प्रकृति:
पृथिव्यादीनि भूतानि, इन्द्रियाणां प्रकृतिरस्मिता । अतो भूताना-
मस्मितायाश्च अवयवानुप्रवेश एवापूर उच्यते । तथा च भूतावयवानु-
प्रवेशादेव कायो वर्धते, अस्मितावयवानुप्रवेशादेव चेन्द्रियाणि
वर्धन्ते । इत्थमेव शरीरस्य बाल्यकौमारयौवनवाधंकादीनि,