साङ्ख्य-योग-कोशः /118
This page has not been fully proofread.
योगकोशः
पुरुषोभयाकाराया बुद्धिवृत्तेर्भानार्थं पुरुषेऽपि तादृशबुद्धिवृत्तेः प्रति-
बिम्व आवश्यक इति विज्ञानभिक्षुर्मन्यते । द्रष्टव्यं तत्रैव ।
चित्तपरिकर्म–सुखितेषु मैत्री, दुःखितेषु करुणा, पुण्यशालिषु मुदिता,
अपुण्यशालिघु उपेक्षा इत्यादि परिकर्मजातं चित्तप्रसादहेतुरस्ति,
येन चित्तं स्थितिपदं लभते । एवं प्राणायामो विभिन्नविषयिष्यो
धारणाश्च चित्तपरिकर्माणि सन्ति चित्तस्थिति हेतुभूतानि । ( द्र०
यो० सू० ३३, ३४, ३५, ३६, ३७, ३८, ३९ ) ।
चित्तभूमय:- क्षितं मूढं, विक्षिप्तम्, एकाग्रं, निरुद्ध मिति पञ्च
चित्तस्य भूमयः । ( द्र० यो० वा० पा० १ सू० २ ) ।
चित्तवैशारद्यम् – पापादिरूपावरणमलापेतस्य प्रकाशस्वभावस्य बुद्धि-
सत्त्वस्य रजस्तमोभ्यामनभिभूतोऽतएव स्वच्छः = ध्येयगता शेष विशेष-
प्रतिबिम्बोद्ग्राही यः स्थितिप्रवाहः ( एकाग्रताधारा ) तदेव चित्त-
वैशारद्यम् । ( द्र० यो० वा० पा० १ सू० ४७ ) ।
३८
चित्तसत्त्वम – चित्तरूपे परिणतं सत्त्वं चित्तसत्त्वम् । तादृशं चित्तं
प्रख्याशीलं भवति, सत्त्वप्राधान्यात् । (द्र०त वै० पा० १ सू० २) ।
चित्तसंवित् – यदिदमस्मिन् ब्रह्मपुरे दहरं=गतत्मिकं पुण्डरीकं मनसोऽ-
धोमुखं वेश्म, तदेव हृदयं तस्मिन् संयमात् स्ववृत्तिविशिष्टस्य
चित्तस्य साक्षात्कारो भवतीति । ( द्र० यो० भा० त० वै० पा० ३
सृ० ३४ ) ।