This page has been fully proofread once and needs a second look.

प्रख्या = प्रख्यानं = प्रकाशनं, स हि सत्त्वगुणस्य धर्मः । प्रवृतिः
प्रवर्तनं = व्यापारः स हि रजोधर्म: । स्थितिः = स्थानं = वरणं =
प्रतिवन्धः स च तमोधर्म: । एवंशीला हि सत्त्वादयो गुणाः,
चित्तश्व प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्त-
मिति विवरणकाराः ।
 
चित्तं परार्थम् , चित्तं परार्थ
अनेकाभिः कर्मवासनाभि: क्लेशवासनाभिश्च सम-
न्वितम् । अतएव चित्रोकृतमपि चित्तं परस्य पुरुषस्य भोगापवर्गार्थं
वर्तते न तु स्वार्थम्, संहत्यकारित्वात् गृहादिवत् । न हि गृहादिमोग्य-
जातं गृहाथं भवति किन्तु परार्थम् । एवं न हि सुखभोगो दुःखभोगो
वा सुखार्थं दुःखार्थ वा किन्तु परार्थम् । एवमपवर्गसाधनमपि ज्ञानं
न ज्ञानार्थं किन्तु परस्य पुरुषस्य भोगापवर्गाथं भवतोति । (द्र०या०
मा० त० ० पा० ४ सू० २४ ) ।
 
चित्तं सर्वार्थम् , चित्तं सर्वार्थ
था हि नीलाद्यनुरक्तं चित्तं नीलादिविषयं प्रत्यक्षेणं-
वावस्थापयति, एवं द्रष्टृच्छायापत्त्या द्रष्टृनुरक्तं चित्तं द्रष्टारमपि
प्रत्यक्षेणावस्थापयति । अत एव विषयाकारमहमाकारश्च ज्ञानं
भवति "नीलमहं जानामी" ति । तस्माद् द्रष्टृदृश्याभ्यामुपरक्तत्वात्
सर्वरूपाकारनिर्भासं चित्तं सर्वार्थमिति गोयते योगैः । ( द्र० यो०
मा० तथा त० वै० पा० ४ सू० ३२ ) ।
विज्ञान भिक्षुस्त्वाह – सर्वे = ग्रहोतृग्रहणग्राह्याः पुरुषस्य अर्था: =
मोग्या अस्मिन् इति सर्वार्थम् चित्तम् । "अयं घट" इति ज्ञाना-
नन्तरं "घटमहं जानामी" ति ग्रहीतृग्रहणग्राह्या कारस्य बुद्धे-
वृत्त्यन्तरस्य साक्षिभास्यस्य 'अयंघट' इति वृत्तिवदेव प्रायशो दर्शनात् ।
बाधकं विना सन्निकृष्टवस्त्वाकारतास्वभावस्य चित्ते सर्वसम्मतत्वात्
इति । ( द्र० यो० वा० पा० ४ सू० २३ ) । उभयमते चित्ते
नीलाद्याकारता इन्द्रियसंनिकर्षादिजन्यवृतिप्रयोज्या, पुरुषाकारता च
प्रतिबिम्बमाध्यमेनेति न कश्चिद् विशेषः । किन्तु नीलादिविषय-