This page has been fully proofread once and needs a second look.

चत्वारो योगिनः, चत्वारो योगिन्
योगिनश्चत्वारो भवन्ति प्रथमकल्पिको, मधुभूमिकः,
प्रज्ञाज्योतिः, अतिक्रान्तभावनीयश्चेति ।
तत्र अभ्यासी प्रवृत्तमात्रज्योतिनं तु वशीकृतपर चित्तादिज्ञानः,
प्रथमकल्पिकः ।
ऋतम्भरप्रज्ञो द्वितीयः । ऋतम्भरा प्रज्ञा यस्य स द्वितीयो
मधुभूमिको योगी ।
भूतेन्द्रियजयी तृतीयः । तेन हि योगिना स्थूलादिसंयमेन ग्रहणादि-
संयमेन च भूतेन्द्रियाणि जितानि ।
अतिक्रान्तभावनीयश्चतुर्थः । तेन हि योगिना सर्वाणि भावनीयानि =
निष्पादनीयानि विशोकादिपरवैराग्यपर्यन्तानि अतिक्रान्तानि ।
अतो न किञ्चित् कर्तव्यान्तरमवशिष्यते केवलमसम्प्रज्ञातसमाधिना
चित्तविलयमात्रमवशिष्यत इति ।
 
चलं हि गुणवृत्तम् , चलं हि गुणवृत्त
चलमिति भावनिर्देशः, तेन चलत्वं चावल्यं
गुणानां स्वभावः ।
 
चित्तम् , चित्त
चित्तमन्तःकरणं बुद्धिरित्यनर्थान्तरम् ।
 
चित्तं त्रिगुणम् , चित्तं त्रिगुण
चित्तं हि प्रख्या प्र
-प्रवृत्ति-स्थितिशोलत्वात् त्रिगुणम् ।
तत्र प्रख्याशीलत्वात् सत्त्वगुणं चित्तम् । सत्त्वप्राधान्यात् प्रसाद-
लाघवप्रीत्यादयोऽपि चित्तस्य सात्त्विका भावाः ।
एवं प्रवृत्तिशीलत्वात् रजोगुणं चित्तम् । रजःप्राधान्यात् परिताप-
शोकादयोऽपि चित्तस्य राजसा भावाः सन्ति । एवं स्थिति-
शीलत्वात् तमोगुणं चित्तम् । प्रवृत्तिविरोधी तमोवृत्तिधर्मः
स्थितिः । स्थितिग्रहणात् गौरवावरणदैन्यादयोऽपि तामसा भावा-
श्चित्तस्योपलक्षिता भवन्ति ।
तथा चैकमपि चित्तं त्रिगुणनिर्मिततया गुणानाञ्च
परस्परविमर्दवैचित्र्याद् विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति ।
( द्र० यो० भा० त० वै० पा० १ सु० २ ।