This page has been fully proofread once and needs a second look.

यदि तु एकसन्तानोत्पन्नत्वेन अनुभवसंस्कारस्मृतीनां कार्यकारणभाव-
मभ्युपगम्योक्ताव्यवस्था परिह्रियेत तदा गोमयपायसीयो न्याय
आक्षिप्तो भवेत् । अर्थात् एकसन्तानोत्पन्नत्वेन यदि देवदत्तीयः प्रत्ययो
देवदत्ते एव संस्कारं स्मृतिञ्च जनयेत् तदा गव्यत्वेन हेतुना गोमय-
मपि पायसं स्यात् = गोमयं पायसं गव्यत्वात् प्रसिद्धपायसवत्
इति । तस्मात् एकसन्तानोत्पन्नत्वं नानुभवसंस्कारस्मृतीनां कार्य-
कारणभावनियामक मिति पूर्वोक्ताऽव्यवस्था तदवस्थैव । ( द्र० यो०
वा० पा० १ सू० ३२ ) ।
 
ग्रहीतृग्रहणग्राह्येषु तत्स्थतञ्जनता समापत्तिः, ग्रहीतृग्रहणग्राह्येषु तत्स्थतञ्जनता समापत्ति
निर्मलस्य मणेरिव
अभ्यासवैराग्याभ्यां क्षीण राजसतामसप्रमाणादिवृत्तेश्चित्तस्य स्थूल-
सूक्ष्मभूतात्मकग्राह्यपदार्थेषु, तथा ग्रहणेषु इन्द्रियेषु, तथा अस्मितास्पदे
ग्रहीतृपुरुषे स्थितस्य या तत्तदाकारापत्तिः सा समापत्तिरित्युच्यते
( द्र० यो० भा० त० वै० पा० १ सू० ४१ ) ।