साङ्ख्य-योग-कोशः /114
This page has been fully proofread once and needs a second look.
गुणपर्वाणि, गुणपर्वाणिव
गुणानां सत्त्वरजस्तमसां दृश्यत्वेन वर्णितानां चत्वारि
पर्वाणि चतुर्विधाः परिणामाः ) भवन्ति । वंशस्य पर्वाणोवैतानि
पर्वाणि कथ्यन्ते । तानि च पर्वाणि - विशेषाः अविशेषाः लिङ्ग-
मात्रम्, अलिङ्ग श्वेति सन्ति ।
तत्राकाद्यवाय्वग्न्युवकभूमयः पञ्च स्थूलभूतानि एकादशेन्द्रियाणि
चेति षोडशविशेषा: ( विशेषपरिणामाः ) सन्ति गुणाना मित्येकं पर्व ।
षडविशेषाः-यथा शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं रस-
तन्मात्रं, गन्धतन्मात्रञ्चेति पञ्चाविशेषाः, पष्ठश्चाविशेषोऽस्मिता-
मात्र इति षडविशेषा ( अविशेषपरिणामाः ) गुणानामिदं द्वितीयं
पर्व । एते महत: पडविशेषपरिणामाः । सांख्ये तु अहङ्कार एव
महतः परिणामः, तन्मात्राणि त्वहङ्कारस्यैव परिणाम इति भेदः ।
तदुक्तं मणिप्रभायाम् – अहङ्कारात् पञ्चतन्मात्राणोति सांख्याः,
अहङ्कारस्यानुजानि बुद्धेरपत्यानि तन्मात्राणीति योगाः इति ।
लिङ्गमात्रं = महत्तत्त्वम्, इदं गुणानां तृतीयं पर्व लिङ्गमात्रपरि-
णामश्चेत्युच्यते । अलिङ्गं प्रधानमिति गुणानां चतुर्थं पर्व विद्यते ।
अयमेवालिङ्गपरिणामः गुणानां सहशपरिणाम: साम्यावस्था
चोच्यते । ( द्र० यो० मा० पा० २ सू० १९ )।
गोमयपायसीयन्यायः, गोमयपायसीयन्याय
अयं न्यायः "तत्प्रतिषेवार्थमेकतत्त्वाभ्यास:
इतिसूत्रभाष्ये एकमनेकार्थमवस्थितव चित्तमिति स्वसिद्धान्तसमर्थन-
प्रसङ्गे क्षणिकवादिनं प्रति भाष्यकारेण प्रयुक्तः । तत्रेयमाशङ्का
उत्थापिता यत् यदि चित्तं क्षणिकं स्यात् तदा वाल्ये अन्येन चित्तेन
अनुभूतस्य यौवने अन्यच्चित्तं कथं स्मर्तृ भवेत् ? 'नान्यदृष्टं स्मरत्यन्य:'
इति नियमात् । यदि अन्यदृष्टमन्यः स्मरेत् तदा देवदत्तदृष्टमपि
यज्ञदत्तः स्मरेत् । अतो दोषस्यास्य निवारणाय एकं चित्तमनेकार्थ-
मवस्थितञ्च स्वीकार्यम् । तेनैकमेव चित्तं बाल्येऽनुभूय यौवने
स्मरतीति नाव्यवस्था ।