This page has been fully proofread once and needs a second look.

हेतुलिङ्गम् (ज्ञापक:) अस्तीति विज्ञानभिक्षुः । द्रष्टव्यं तत्रत्यं वार्तिकम् ।
नागेशभट्टो विज्ञानमिक्षुमेवानुसरति । यदाचान्ये विवरणकारप्रभृतयो
वाचस्पति मिश्रानुसारिव्याख्यातारः ।
 
क्रियायोगः, क्रियायोग
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः । क्रियारूपो
योगः क्रियायोगः । क्रियाऽपि योगसाधनत्वात् योग इत्युच्यते । तप
आदीनि त्रीणि क्रियायोगः । तेषु -
 
तपः, तप
देहेन्द्रियशोषणात्मकम् । तच्च तपस्तावदेवासेव्यं यावच्च
चित्तप्रसादाविरोधि योगेऽवाधकञ्च स्यात् ।
 
स्वाध्यायः, स्वाध्याय
प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ।
 
ईश्वरप्रणिधानम् , ईश्वरप्रणिधान
सर्वकर्मणां परमगुरावर्पणं तत्फलसंन्यासो वा ।
( द्र०या० भा० पा० २ सू० १ ) ।
 
क्लिष्टाऽक्लिष्टा वृत्तयः, क्लिष्टाऽक्लिष्टा वृत्ति
अविद्या दिक्लेशहेतुकाः कर्माशयप्रचयक्षेत्री-
भूताः क्लिष्टाः वृत्तयः । ख्यातिविषया गुणाधिकारविरोधिन्योऽ
क्लिष्टा: वृत्तयः ।
 
क्लेशाः, क्लेश
अविद्या, अस्मिता, रागो, द्वेषोऽभिनिवेशः इति पञ्च क्लेशाः ।
 
क्षणात्मक एव कालः, क्षणात्मक एव काल
क्षण एव वास्तविक: काल इति योगमतम् ।
क्षणानामेव प्रवाहाविच्छेदो बुद्धिसमाहारो मुहूर्तयामाहोरात्रादयः
सन्ति । न च द्वौ क्षणौ सह भवत इति नास्ति क्षणानां वास्तविकः
समाहारः । तस्मात् दिनाहोरात्रादिरूपेण व्यवह्रियमाणः कालो
वस्तुशून्यो बुद्धिनिर्माण: शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां
वस्तुस्वरूप इवावभासते इति क्षण एव वस्तुभूतः कालो न तु स्थूल-
कालोऽप्यस्ति । ( द्र० यो० मा० पा० ३ सू० ५२ ) ।
 
क्षिप्तम् , क्षिप्त
सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं यत् चित्तं
तत् क्षिप्तम् । ( द्र० यो० भा० त० वै० पा० १ सू० १ ) ।
 
क्षुत्पिपासानिवृत्तिः, क्षुत्पिपासानिवृत्ति
कप्ठकूपे संयमात् क्षुत्पिपासानिवृत्तिर्जायते ।
जिह्वाया अधस्तात् तन्तुरस्ति, ततोऽधस्तात् कण्ठोऽस्ति, ततोऽ
धस्तात् कूपोऽस्ति, तत्र संयमात् = धारणाध्यानसमाघित्रयात् क्षुत्-
पिपासे न योगिनं बाधेते । ( द्र० यो० मा० पा० ३ सू० ३१ ) ।