This page has been fully proofread once and needs a second look.

योगकोशः
 
हेतुलिङ्गम् (ज्ञापक:) अस्तीति विज्ञानभिक्षुः । द्रष्टव्यं तत्रत्यं वार्तिकम् ।

नागेशभट्टो विज्ञानमिक्षुमेवानुसरति । यदाचान्ये विवरणकारप्रभृतयो

वाचस्पति मिश्रानुसारिव्याख्यातारः ।
 

 
क्रियायोगः, क्रियायोग
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः । क्रियारूपो

योगः क्रियायोगः । क्रियाऽपि योगसाधनत्वात् योग इत्युच्यते । तप

आदीनि त्रीणि क्रियायोगः । तेषु -
 

 
तपः - , तप
देहेन्द्रियशोषणात्मकम् । तच्च तपस्तावदेवासेव्यं यावच्च

चित्तप्रसादाविरोधि योगेऽवाधकञ्च स्यात् ।
 

 
स्वाध्यायः - , स्वाध्याय
प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ।

 
ईश्वरप्रणिधानम् , ईश्वरप्रणिधान
सर्वकर्मणां परमगुरावर्पणं तत्फलसंन्यासो वा ।

( द्र०या० भा० पा० २ सू० १ ) ।
 

 
क्लिष्टाऽक्लिष्टा वृत्तयः -- , क्लिष्टाऽक्लिष्टा वृत्ति
अविद्या दिक्लेशहेतुकाः कर्माशयप्रचयक्षेत्री-

भूताः क्लिष्टाः वृत्तयः । ख्यातिविषया गुणाधिकारविरोधिन्योऽ

क्लिष्टा: वृत्तयः ।
 
-
 

 
क्लेशाः, क्लेश – अविद्या, अस्मिता, रागो, द्वेषोऽभिनिवेशः इति पञ्च क्लेशाः ।

 
क्षणात्मक एव कालः, क्षणात्मक एव काल
क्षण एव वास्तविक: काल इति योगमतम् ।

क्षणानामेव प्रवाहाविच्छेदो बुद्धिसमाहारो मुहूर्तयामाहोरात्रादयः

सन्ति । न च द्वौ क्षणौ सह भवत इति नास्ति क्षणानां वास्तविकः

समाहारः । तस्मात् दिनाहोरात्रादिरूपेण व्यवह्रियमाणः कालो

वस्तुशून्यो बुद्धिनिर्माण: शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां

वस्तुस्वरूप इवावभासते इति क्षण एव वस्तुभूतः कालो न तु स्थूल-

कालोऽप्यस्ति । ( द्र० यो० मा० पा० ३ सू० ५२ ) ।
 
-
 

 
क्षिप्तम् , क्षिप्त
सदैव रजसा तेषु तेषु विषयेषु
तत् क्षिप्तम् ।
 
क्षिप्यमाणमस्थिरं यत् चित्तं

तत् क्षिप्तम् ।
( द्र० यो० भा० त० वै० पा० १ सू० १ ) ।
 

 
क्षुत्पिपासानिवृत्तिः– कप्ठकूपे संयमात्, क्षुत्पिपासानिवृत्ति
कप्ठकूपे संयमात् क्षुत्पिपासानिवृत्ति
र्जायते ।

जिह्वाया अधस्तात् तन्तुरस्ति, ततोऽधस्तात् कण्ठोऽस्ति, ततोऽ

धस्तात् कूपोऽस्ति, तत्र संयमात् = धारणाध्यानसमाघित्रयात् क्षुत्-

पिपासे न योगिनं बाधेते । ( द्र० यो० मा० पा० ३ सू० ३१ ) ।
 
.