This page has been fully proofread once and needs a second look.

इति पदेन सूचिता क्षणसम्बन्धिता परिणामधारायां न प्रतीयते ।
वाचस्पतिमिश्रव्याख्यानन्तु सूत्रानुरोधि भाष्याविरोधि चास्ति ।
मिश्राणां व्याख्याने "क्षणानन्तर्यात्मा" इति भाष्यवचनपि संगच्छत
एव । तथाहि क्षणानामानन्तर्य क्षणानन्तर्यमिति षष्ठ्यन्तक्षणपद-
विग्रहे क्षणानाम् आनन्तर्य बहूनां क्षणानामविरलभाव एवास्तीति
क्षणानन्तर्यपदेनापि भाष्योक्तेन क्षणप्रचय एवार्थो लभ्यते । तथा च
क्षणप्रचयाश्रिता परिणामपरम्परा क्रम इति लक्षणं सूत्रभाष्योभय-
समञ्जसमिति ज्ञेयम् । इदं हि परिणामक्रमस्वरूपम् ।
क्रमसामान्यन्तु क्षणप्रवाहाविच्छेद एव क्षणानन्तर्यात्मा । ( द्र० यो०
मा० पा० ३ सू० ५२ ) ।
 
क्रमान्यत्वं परिणामान्यत्वे हेतुः, क्रमान्यत्वं परिणामान्यत्वे हेतु
एकस्या मृद: चूर्णपिण्डघटकपालकणा-
कारा परिणतिपरम्परा क्रमवती लौकिकैः परीक्षकैश्चाध्यक्षं समीक्ष्यते ।
तत्र च एकस्या मृद: चूर्णादिपरिणामभेदे तेषां क्रमभेद: = आनन्तर्य-
भेद एव हेतुः कारणमस्ति । यदि चूर्गादिपरिणामाः भिन्ना भिन्नाः
न स्वाक्रियेन् तदा तेषु आनन्तयंभेदः कथमुपपद्येत । दृश्यते हि
तेषामानन्तर्ये भेदः । यथा अन्यच्चेदं चूर्णापिण्डयोरानन्तर्य मन्यच्च
पिण्डघप्योरन्यच्च घटकपालयोरन्यच्च कपालकणयोरिति । यो
हि एकं प्रति परः स एवापरं प्रति पूर्व: । सोऽयं चूर्णपिण्डादीनां
क्रमभेद आनन्तर्यभेद: एकस्मिन्नेव परिणामे स्वीक्रियमाणे
नावकल्पते, अतः स्वयं भिद्यमानः क्रमः परिणाममपि भेदयति ।
तस्मादेकोऽपि मृद्धर्मी क्रमोपनिपतिततत्तत्सहकारिसमवधानक्रमेण
क्रमवतीं नानापरिणामपरम्परामुद्वहतीति तत्र क्रमान्यत्वमेव हेतुः ।
( द्र० यो० मा० त० वै० पा० ३ सू० १५ ) ।
अत्र धर्माणामेव क्रमान्यत्वमानन्तर्यभेदः परिणामान्यत्वे हेतुरिति
वाचस्पतिमिश्राः । मृद्धर्मिण एव क्रमान्यत्वं = चूर्णरिण्डादिरूप -
क्रमभेद: प्रत्यक्षमीक्ष्यमाण एकस्य तस्य मृद्धर्मिण: परिणामनानात्वे