This page has been fully proofread once and needs a second look.

"तस्मान्न वध्यतेऽद्धा न मुच्यते नापि संसरति १. चित् ।
संसरति वध्यते मुच्यते च नानाश्रया प्रकृतिः ॥" इति ।
'स्वरूप तिष्ठारूपं द्वितीयं कैवलन्तु पुरुषस्य न निराकृतम् । तथा
सति मोक्षस्य प्रकृतिमात्र निष्ठत्तेऽपुरुषार्थत्वेन तत्र प्रवृत्त्यनुपपत्तेः,
'पुरुषार्थमेव करणानां प्रवृत्तिरित्यतः स्वरूपप्रतिष्ठारूपं सूत्रोक्तं द्वितीयं
कैवल्यं पुरुषस्य मुख्यमेवेति । ( द्र० यो० वा० पा० ४ सू० ३४ ) ।
 
क्रमः, क्रम
'क्षणप्रतियोगो परिणामापरान्तनिर्ग्राह्यः क्रमः" इति सूत्रोक्त
क्रमः पूर्वसूत्रोक्तपरिणामक्रम एवेह लिलक्षयिषितः । तथा चायमर्थ:-
क्षण: प्रतियोगी = प्रतिसम्मन्धी आश्रयतया यस्य स क्षणप्रतियोगी,
क्षणवत्रयाश्रय इत्यर्थः । परिणामक्रमो हि क्षणप्रचयानाश्रित्यैव
प्रवर्तते, न तु एकेन क्षणेन परिणामस्य क्रमः ( परम्परा ) कल्पेत ।
तस्मात् क्षणसमुदायाश्रित एव परिणामक्रम उपकल्पते । स च
परिणामक्रमः केनापि प्रत्यक्षोकर्तुं न शक्यते किन्तु परिणामस्या-
परान्तेन = पर्यवसानेनंव अनुमीयते यत् क्रमिकपरिणामेनैवेदानीं
वस्त्रे स्फुटतमा पुराणता जाता न तु सहसेति । तथा च क्षण-
प्रचयाश्रिता परिणामपयंवसानानुमेया पूर्वापरीभूतपरिणामपरम्परैव
परिणामक्रम इति वाचस्पातमिश्रा: । ( द्र० यो० मा० त० व०
पा० ४ सू० ३३ ) ।
विज्ञानभिक्षुस्तु व्याचष्टे –क्षणप्रतियोयोगी क्षणस्यावसरस्य
विरोधी, क्षनेनाप्यनन्तरित इति यावत् । आनन्तर्यश्च अव्यधानम् ।
तथा च क्षणाव्यवहितपरिणामधारैव परिणामक्रम इति । (द्र० यो०
वा० पा० ४ सू० ३३ ।
उभयोव्यख्यानभेदे मूलन्तु "क्षणानन्तर्यात्मा क्रमः" इति भाष्य-
मेवास्ति । विज्ञानभिक्षुह क्षणेनाप्यानन्तर्य क्षणानन्तर्यमिति
तृतीयान्तक्षणपदविग्रहेण क्षणाव्यवहितपरिणामधारा क्रम इति
·लक्षणमाह । किन्तु अस्मिन् पक्षे सूत्रघटकेन "क्षणप्रतियोगो"