This page has been fully proofread once and needs a second look.

कैवल्यप्राग्भारं चित्तम् , कैवल्यप्राग्भारं चित्त
कैवल्याभिमुखं चित्तम्, कैवल्ये प्राग्भार
आभिमुख्यं यस्येति व्युत्पत्तेः ।
 
कैवल्यम् , कैवल्य
गुणानामधिकारक्रमसमाप्तौ कैवल्यं भवति । तच्च कैवल्यं
प्रकृतेः पुरुषस्य च भवति । तथा च योगसूत्रम् – "पुरुषार्थशून्यानां
गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति" ।
पा० ४ सू० ३४ ) । अर्थात् कृतभोगापवर्गरूपकार्यतया पुरुषार्थ-
शून्यानां गुणानां कार्यकारणात्मकानां व्युत्थानसमाधिनिरोधसंस्कारा
मनसि लीयन्ते, मनोऽस्मितायाम् अस्मिता लिङ्गे, लिङ्गमलिङ्गेड-
व्यक्ते लीयते इति । योऽयं गुणानां कार्यकारणात्मकानां प्रतिप्रसवः =
प्रतिसर्गः = प्रलयः तत्कैवल्यम्, यं कश्चन पुरुषं पति न तु सर्व
प्रति, प्रधानस्त्रैष मोक्षः । पुरुषस्य मोक्षस्तु स्वरूपप्रतिष्ठा चिति-
शक्तिरिति । इयं हि स्वरूपप्रतिष्ठा शाश्वतिकोति सैव पुरुषस्य
कैवल्यं मोक्ष इति । ( द्र० यो० मा० त० वै० पा० ४
सू० ३४ ) ।
विज्ञान भिक्षरप्याह- कृतकृत्यतया पुरुषार्थशून्यानां गुणानां महदादि-
सूक्ष्मभूतपर्यंन्तानां पुरुषोपकरणानां लिङ्गशरीराद्यात्मकानां प्रतिप्रसवः
स्वकारणेऽत्यन्तविलयः स बुद्धेः कैवल्यम् । एतदेव प्रधानस्यापि
ज्ञानिपुरुषं प्रति कैवल्यमुच्यते, तेन पुरुषेण सह तस्य पुनरसंयोगात् ।
या तु चितिशक्तिस्वरूपिणी स्वरूपप्रतिष्ठा बुद्धिसत्त्वोपाधिकरूप-
शून्यतारूपा जपापाये स्फटिक स्वरूपप्रतिष्ठावत्, सा पुरुषस्य कैवल्यम् ।
अतएव सूत्रे वाशब्दो व्यवस्थितविकल्पपरः । परस्परवियोगे
हि उपाध्युपाधिमतोरुभयोरेव केवलता = एकाकिता भवति । ते
उभे अपि केवलते प्रधानपुरुषगते दुःखनिवृ त्त्याख्यपुरुषार्थसाधनं
भवतः । अतो द्वे एव कैवल्ये मोक्षरूपे स्त: 1 तयोश्चाद्यं कंवल्यं
मुख्यतया प्रकृतेरेवास्ति पुरुषस्य तु उपचरितम् । एतदभिप्रायेणे-
वोक्तं सांख्यकारिकायाम्-