This page has not been fully proofread.

(iii)
 
अनन्तश्री विभूषितानां काशीस्थोर्ध्वाम्नायसुमेरु-
पीठाधीश्वराणां जगद्गुरुशङ्कराचार्याणां
स्वामिश्रीमहेश्वरानन्दसरस्वती-
पादानाम्-
शुद्ध भाद्रपदकृष्ण त्रयोदशी गुरुवासरे
संवत् २०३१
 
संख्यावद्भिर्विसंख्यैः प्रगुणित गरिमाख्यात
बुद्धिर्विशुद्धिः ।
मुग्धो दुग्धेन्दुशुद्धः श्रुतनुत महिमाज्ञाततत्त्वान्तरात्मा ॥
नित्यानित्यैकरूपः प्रथितगुणनिधिर्ध्यातृवगैरधीतः ।
सांख्ये प्रोक्तः पुराणः कपिलमुनिवरैर्वर्णितश्चैष शुद्धः ॥ १ ॥
 
आकाशचूम्ब्रियशसां महतां महिष्ठैः,
 
टीकाकृतां वलय उच्छ्रतिमाश्रयद्भिः ।
वाचस्पतीति
कृतनामवतां
वरिष्ठैः,
 
या कौमुदीति विदिता ननु टीकिताऽऽस्ते ॥ २ ॥
सांख्ये योगे गरिष्ठे कृतगुण महिमा कोषकारो महेच्छः ।
श्री श्री विद्यालयेऽस्मिन् नरिनरि विदिते मालवीयस्य कार्ये ॥
श्रेष्ठो निष्ठागरिष्ठ ! श्रुतनुतगरिमागौरवागूरितश्रीः ।
श्रीमान् केदारनाथोऽयमिह विजयते कोऽपि विद्वान् मनीषी ॥३॥
 
महेश्वरानग्दसरस्वती