साङ्ख्य-योग-कोशः /108
This page has not been fully proofread.
२८
योगकोशः
करुणा- आत्मनीव परस्मिन् दुःखत्रहाणेच्छा, निरुपधिपरदुःखप्रहाणे-
च्छा वा करुणा । इयं हि स्थिरचित्तस्य स्थितिदाढ्यंहेतुः परिकर्म-
विशेष इति विज्ञानभिक्षुः । व्युत्थितचित्तस्यासूयादिनिराकरणद्वारा
समाध्युपायभूतचित्तप्रसादनहेतुः परिकर्मविशेषः करुणेति वाचस्पति-
मिश्रा: । ( द्र० यो० भा० त० वै० तथा यो० वा० पा० १
सू० ३३ ) ।
कर्माणि - चतुविधानि कर्माणि - कृष्णं- शुक्लं- शुक्लकृष्णम् - अंशुक्ला-
कृष्णञ्चेति । तत्र वृष्ण दुरात्मनाम् । शुक्लं तपःस्वाध्यायध्यान-
वताम् । शुक्लकृष्णं वहिःसावनसाध्यम् यज्ञादिकम्, तत्र परपोडानु-
ग्रहद्वारेणैव कर्माशयप्रचया भवति । व्रीह्यादीनाभवघातादिसमये
पिपीलकादिवधसंभवात् परपीडा ।
अनुग्रहश्च दक्षिणादिप्रदानेन
ब्राह्मणादेरिति । अशुक्लाकृष्णं संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् ।
तत्राशुक्लं फलसंन्यासात्, अकृष्णश्च बहिःसाधनसाध्य कर्मस्वप्रवर्तनात्
इति । ( द्र० यो० मा० त० वै० पा० ४ सू० ७ ) ।
कल्पप्रलयः - ब्रह्मणां दिनावसाने यत्र सत्यलोकवर्जं जगदस्तमेति स
कल्पप्रलयः । ( द्र० त० वै० पा० १ सु० २५ ) ।
कषायाः - रागद्वेषमोहाः कषायाः चित्तवत्तिनः । एतैरेवेन्द्रियाणि
यथास्वं विषयेषु प्रवत्य॑न्ते ।
कायव्यूहज्ञानम् - वातपित्तश्लेष्माणस्त्रयो दोषाः, धातवः सप्त त्वग्-
लोहितमांसस्नायवस्थिमज्जाशुक्राणि पूर्वं पूर्वमेषां बाह्यमित्येवं
विन्यासः कायव्यूहः, तस्य ज्ञानम् नाभिचक्रे संयमाद् भवतीति ।
( द्र० यो० मा० पा० ३ सू० २६ ) ।
E
कायसंपत्-दर्शनीयरूपं, लावण्यं = कान्ति:, बलं, वज्रवद्हढोऽवयव-
व्यूहश्चेति कायसंपत् कथ्यते । तथा च योगसूत्रम् – "रूपलावण्य-
बलवज्र संहननत्वानि कायसंयत्" ( पा० ३ सू० ४६ ) ।