This page has been fully proofread once and needs a second look.

एकतत्त्वाभ्यासः, एकतत्त्वाभ्यास
विक्षेपप्रतिषेधार्थमेकतत्त्वस्य परमेश्वरस्य अभ्यासः
करणीयः प्रकृतत्वात् इति वाचस्पतिमिश्रा: ( द्र० यो० मा० त०
वै० पा० ६ सू० ३२ ) ।
विज्ञानभिक्षुस्तु – एकं तत्त्वं स्थूलादि किञ्चिदपि ग्राह्यं नतु,
परमेश्वर एवेत्याह ॥ ( द्र० यो० वा० पा० १ सू० ३२ ) ।
 
एकभविकः कर्माशयः, एकभविकः कर्माशय
एको भवो = जन्म कार्यतया यस्यास्ति स
कर्माशयसमूह एकमविक इत्युच्यते, अर्थात् अनेके कर्माशया मिलित्वा
एकं जन्म निर्वर्तयन्तीति । (द्र० त० व० पा० २ सू० १३ ) ।
तदुक्तम् योगभाष्ये – "जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशय--
प्रचयो विचित्रः प्रधानोपसर्जनीभावेनावस्थितः प्रायणाभिव्यक्त
एकप्रघहकेन मिलित्वा मरणं प्रसाध्य संमूर्च्छितः एकमेव जन्म:
करोति अत एकभविक: कर्माशय उक्त इति" ।
 
एकाग्रम् , एकाग्र
एकस्मिन्नेव विषयेऽग्रं शिखा यस्य चित्तदीपस्येत्येकाग्रं
चित्तम् । विशुद्धसत्त्वतया एकस्मिन्नेव विषयेऽवधीकृत कालपर्यंन्त-
मचञ्चलं निवातस्थदीपवत् तदेकाग्रम् । ( द्र० यो० वा० पा० १
सू० १ ) । एकाग्रम् = एकतानमिति तत्त्ववैशारदी ।
 
एकाग्रतापरिणामः, एकाग्रतापरिणाम
समाहितचित्तस्य पूर्वंप्रत्ययः शान्तः उत्तरस्त-
त्सदृश उदितः । समाधिचित्तम् उभयोः ( पूर्वोत्तर प्रत्यययो । )
अनुगतं पुनस्तथैव आ समाधिभ्रेषात् । स खल्वयं धर्मिणश्चित्तस्यै--
काग्रतापरिणामः । (द्र० यो० मा० पा० ३ सू० १२ ) ।
अस्मिन् परिणामे सजातीय एकैक: प्रत्ययो नश्यति, अन्योन्य
उत्पद्यते इत्येवं धारावाहिक: परिणामो भवतोति विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० ३ सू० १२ ) ।
 
एकान्तवचनीयत्वम् , एकान्तवचनीयत्व
कि सर्वो जातो मरिष्यति ? अस्त्ययं प्रश्न
एकान्तवचनीथः । अत एवात्रोत्तरं भवति "ऊँ भो इति । अर्थात्
अवश्यं सर्वो जातो मरिष्यतीति ।" ( द्र० यो० मा० पा० ४-
सू० ३३ ।