This page has been fully proofread once and needs a second look.

ऋतम्भरा प्रज्ञा, ऋतम्भरा प्रज्ञा
ऋतं सत्यमेव बिभर्तीति ऋतम्भरा प्रज्ञा । न तत्र
विपर्यासगन्धोऽप्यस्तीति । ( द्र० यो० भा० पा० १ सू० ४८ )।
विज्ञानभिक्षुस्त्वाह - "ऋतम्भरा तत्र प्रज्ञा" इति सूत्रे ऋतम्भ-
रेतिपदम् ऋतम्भरजातीयत्वविवक्षया प्रयुक्तम् । तेन शब्दार्थज्ञान-
विकल्पै: सङ्कीर्णायां "गौरियं भासते, नारायणोऽयं भासते" इत्या-
कारिकायां सवितर्कसमापत्तिजन्यायां प्रज्ञायाम् विपर्यासज्ञानत्व-
सत्वेऽपि न ऋतम्भरात्वस्याव्याप्तिः तस्यामपि प्रज्ञायाम् ऋतभर-
जातीयत्वस्य विद्यमानत्वात् । साजात्यञ्च समाधिजप्रज्ञात्वेन
विवक्षितम् । अथवा "ऋतम्भरा" इति पदस्य व्युत्पत्तिनिमितं
कामं विपर्यासरहितज्ञानत्वं भवेत् प्रवृत्तिनिमित्तन्तु समाहितचित्ते
जायमाना या प्रज्ञा तद्द्वृत्तिधर्म एव । तस्य च धर्मस्य सवितर्क-
योगजप्रज्ञायामपि सत्त्वेन अव्याप्तिदोषाभावात् इति । ( द्र० यो०
वा० पा० १ सू० ४८ ) ।