This page has been fully proofread once and needs a second look.

उपायप्रत्ययः, उपायप्रत्यय
असंप्रज्ञातसभाधेरबान्तरभेद: उपायप्रत्ययः । उपाय
श्रद्धावीर्य स्मृतिसमाधिप्रज्ञारूप: प्रत्ययो = हेतुयंस्य स उपायप्रत्ययो-
ऽसंप्रज्ञातसमाधिः । स च योगिनामेव भवति ।
 
श्रद्धा, श्रद्धा
चेतसः सम्प्रसादः = । अभिरुचिः = अतोच्छा - इच्छाविशेष
इति यावत् ।
 
वीर्यम् , वीर्य
श्रद्धयोत्पन्न इष्यमाणविषयकः प्रयत्नो वीर्यम् धारणेति
यावत् ।
 
स्मृतिः, स्मृति
प्रयत्नाद् जायमानं ध्यानमेव स्मृतिः ।
 
समाधिः, समाधि
योगाङ्गभूतो यमनियमाद्यङ्गेषु अष्टमः ।
 
प्रज्ञा, प्रज्ञा
विवेकः । (द्र० पा० यो० मा० त० वै० पा० १ सू० २०) ।
 
उपेक्षा, उपेक्षा
अपुण्यशीलेषु उपेक्षा = माध्यस्थ्यम् = औदासीन्यम् व्युत्थित-
चित्तस्य योगसोपानमारुरुक्षोः परिकर्मविशेषः । ( द्र० यो० भा०
पा० १ सू० ३३ ।