This page has not been fully proofread.

योगकोशः
 
२५
 
उपायप्रत्ययः – असंप्रज्ञातसभाधेरबान्तरभेद:
 
उपायप्रत्ययः । उपाय
 
श्रद्धावीर्य स्मृतिसमाधिप्रज्ञारूप: प्रत्ययो = हेतुयंस्य स उपायप्रत्ययो-
ऽसंप्रज्ञातसमाधिः । स च योगिनामेव भवति ।
 
श्रद्धा – चेतसः सम्प्रसादः = । अभिरुचिः = अतोच्छा - इच्छाविशेष
इति यावत् ।
 
वीर्यम् – श्रद्धयोत्पन्न इष्यमाणविषयकः प्रयत्नो वीर्यम् धारणेति
 
यावत् ।
 
स्मृतिः – प्रयत्नाद् जायमानं ध्यानमेव स्मृतिः ।
 
-
 
समाधिः– योगाङ्गभूतो यमनियमाद्यङ्गेषु अष्टमः ।
 
प्रज्ञा – विवेकः । (द्र० पा० यो० मा० त० वै० पा० १ सू० २०) ।
 
-
 
-
 
उपेक्षा — अपुण्यशीलेषु उपेक्षा = माध्यस्थ्यम् = औदासीन्यम् व्युत्थित-
चित्तस्य योगसोपानमारुरुक्षोः परिकर्मविशेषः । ( द्र० यो० भा०
पा० १ सू० ३३ ।