This page has been fully proofread once and needs a second look.

उदानः, उदान
रसादीनामूर्ध्वं नयनादुदानः, स च शरीरोपगृहीतमारुत-
विशेषः, आ नासिकाग्रात् आच शिरसो वर्तमानः इति वाचस्पति-
मिश्रा: । ( द्र० यो० मा० त० वै० पा० ३ सू० ३६ ) ।
विज्ञनभिक्षुस्तु–करणसामान्यस्य परिणामभेदो वृत्तिविशेषो मुख-
नासिकादिमारभ्य ब्रह्मरन्ध्रपर्यंन्तवृत्तिः ऊर्ध्वगति प्रदत्वादुदान
इत्याह ( द्र० यो० वा० पा० ३ सू० ३९ ) ।
 
उदानजयः, उदानजय
उदाने स्वायत्तताप्राप्तिः । तस्यां सत्यां जलादिभिनं
प्रतिहन्यते = जलादिषु निर्विघ्नं सञ्चरति, प्रायणकाले अचिरादि-
मार्गेणात्क्रान्तिश्च योगिनो भवतति । ( द्र० यो० मा० त० वै०
पा० ३ सू० ३९ ) ।
 
उद्घात, उद्घात
वायोरुद्धननं गतिनिरोध उद्घात इति विज्ञानभिक्षुः ।
मोजदेवस्तु "उद्घातो नाम नाभिमूलात् प्रेरितस्य वायोः शिरस्य-
मिहननम्" इत्याह । द्रष्टव्यम् यो० द० पा० २ सू० ५०, उभ-
योव्र्व्याख्यानम् ) । प्राणापानव्यानोदानसमानानां सकृदुद्गमनं
मूर्धानमाहत्य निवृत्तिश्योद्घात इति कृत्यकल्पतरुः । ( द्र०
मोक्षकाण्डम् पृ० १७०) 1
 
उपसर्गाः, उपसर्ग
स्वार्थे = परार्थाद् भोगप्रत्ययाद् दृश्याद् विशिष्टे चितिमात्र-
रूपे पौरुषे प्रत्यये संयमाद् याः प्रातिभश्रावण-वेदनाऽऽदर्शाऽऽस्वाद-
वार्तारूपाः सिद्धयो जायन्ते, ते प्रातिभादयः समाहितचित्तस्यो-
त्पद्यमानाः पुरुषसाक्षात्कारे उपसर्गाः = अन्तरायभूताः सन्ति,
पुरुषज्ञाने प्रत्यनीकभूतत्वात् । व्युत्थितचित्तस्य तु कृते ते प्रातिभादयः
सिद्धयः एव सन्ति । व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते,
यथा च जन्मदरिद्रा द्रविणकणिकामपि द्रविणसंभारमभिमन्यते,
तद्वत् । या गिना तु समाहितचित्तेन उपनताभ्योऽपि ताभ्यः
सिद्धिभ्यः "उपसर्गाः" इति बुद्ध्या विरन्तव्यमिति । ( द्र० यो०
मा० त० व० पा० १ सू० ३७ ) ।