This page has been fully proofread once and needs a second look.

योगभाष्यम् । स च भक्तिविशेषो मानसो वाचिकः कायिकश्चेति
श्रीवाचस्पतिमिश्राः ( द्र० यो० भा० त० वै० पा० १ सू० २३ ) ।
विज्ञानभिक्षस्त्वाह –"ईश्वरप्रणिधानाद्व" इति सूत्रगतं प्रणिधानं
न द्वितीयादवक्ष्यमाणं तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोग"
इति सूत्रगतं विवक्षितं किन्तु असंप्रज्ञातकारणोभूतसमाधिरूपो
भावनाविशेष एव, "तज्जय स्तदर्थभावन" मित्यागामिसूत्रेणं-
वात्रत्यस्य प्रणिधानस्य लक्षणोयत्वात् इति । ( द्र० यो० वा०
पा० १ सू० २३ ) । नागेश भट्टोपि पातञ्जलसूत्रवृत्तौ विज्ञानभिक्षुक्त-
मेवार्थमनुसरति । यदा च भाष्यविवरणकारा योगमञ्जरीकारो
मणिप्रभाकारो मोजदेवश्च वाचस्पति मिश्र मेवानुगच्छन्ति ।
 
ईश्वरस्य वैषम्यनैर्घृण्याभाव:, ईश्वरस्य वैषम्यनैर्घृण्याभाव
संसारे मुखिदुःविरूपद्विविधप्राणि-
दर्शनात् ईश्वरे वैषम्यनैघृण्यदोष आपततीति न वाच्यम्, अग्नेरौष्ण्य-
स्वाभाव्यवत् विशुद्धसत्त्वे भक्तवशतास्वभावस्य अपर्यंनुयोज्यत्वात् ।
एतेन, ईश्वरः स्वभक्तानेवानुगृह्णाति नान्यान् प्रत्युत तान्त्रिगृहीता-
नपि करोति स्वभक्तैश्वर्यदानेनेत्यतो वैषम्यादिप्रसङ्ग ईश्वरे इति
शङ्काऽपास्ता । वैषम्यञ्च रागद्वेषाभ्यामेव भवति न तु प्रवृत्ति-
मात्रेण ।
यच्च हिरण्यगर्माद्यैश्वर्यदानाद् अन्येषां दुःखं भवति तत्रापि हिरण्य-
गर्भादीनामेव वैषम्यं बीजं न त्वीश्वरस्य । तस्य तु परदुःखप्रहा-
णेच्छा विद्यमानाऽपि भक्तवशतया कुण्ठिता स्वकार्याय विलम्बते
इति । यच्च कर्मसापेक्षतया वैषम्यनंघृण्यपरिहारो ब्रह्मसूत्रेण
कृतस्तत्राप्ययमेवाशय।– लोकानां विहिननिषिद्धरूपाणि कर्माणि
देवानां सुखदुःखसाधनानि भवन्ति । अतः ईश्वरेण स्वभक्त देवेष्व-
पराद्धाय यदुःखं दीयते यच्चानपराद्धाय सुखं दीयते तद् मक्त-
पारवश्यनिमित्तकमेव न तु वैषम्याद् नर्घृण्याद्वेति । (द्रव्यो० मा०
पा० १ सू० २५ ) ।