साङ्ख्य-योग-कोशः /100
This page has been fully proofread once and needs a second look.
२०
वामनाडी ।
इन्द्रियजयः
ग्रहण-
योगसूत्रम् । ( पा० ३ सू० ४७ ) तत्र सामान्य विशेषात्मा शब्दा-
दिर्ग्राह्यः, तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । स्वरूपं पुनः प्रकाशात्मनो
बुद्धिसत्त्वस्य सामान्यविशेषयोरयुत सिद्धावयवभेदानुगतः समूहो
द्रव्यमिन्द्रियम् ।
अस्मिता – अहङ्कारोऽस्मितालक्षण: इन्द्रियेष्वनुगततया इन्द्रियाणां
तृतीयं रूपम् । चतुर्थं रूपं व्यवसायात्मका: प्रकाशक्रिय स्थि तशीला
गुणा एव । तेषामेव हि परिणामविशेष इन्द्रियाणि । गुणेषु यदनुगतं
पुरुषार्थवत्त्वं तदेवेन्द्रिताणां पञ्चमं रूपमित्येवंप्रकारेणेन्द्रियाणां पञ्च
रूपाणि भवन्ति ग्रहणम् - स्वरूपम् - अस्मिता - अन्वयः- अर्थवत्त्वमिति ।
एतेषु पञ्चरूपेषु संयमात् इन्द्रियजयो भवतीति । ( द्र० यो०.
मा० त० वै० तथा यो० वा० पा० ३ सू० ४७ ) ।
इष्टदेवतासंप्रयोगः
इष्टानां देवानामृषीणां सिद्धानाच दर्शनमेवेष्ट-
देवतासंप्रयोगः कथ्यते । तच्च दर्शनं स्वाध्यायशीलस्य भवतीति ।.
( द्र० यो० भा०पा० २ सू० ४४ ) ।
ईश्वरः, ईश्वर
"
सूत्रानुसारम् यो हि अविद्यादिक्ले
धर्माधर्मे:, जात्यायुर्योगात्म कविपार्क,
-
धर्माधर्मे:, जात्यायुर्योगात्म कविपाकैः,तदनुगुणवासनामिश्च
सर्वथाऽपरामृष्टोऽस्ति एवंविधः पुरुषविशेष एवेश्वर इति पातञ्जल-
मतम् । कुर्ताश्चद् विशेषात् स ईश्वर: पुरुषान्तरेभ्यो विशिष्यते -
व्यवच्छिद्यते = भेदेन परिच्छिद्यते । यतो हि कैवल्यं प्राप्ताः सन्ति
यद्यपि बहवः केवलिनस्तथापि ते त्रीणि बन्धनानि च्छित्वा केवल्यं
-