This page has not been fully proofread.

शुभाशीर्वादाः
परमहंसपरिव्राजकाचार्याणामभिनवशंकर विभूतीनामनन्त-
श्रीविभूषितानां श्रीकरपात्र-
स्वामिचरणानाम्-
श्रीहरिः, गङ्गामहल, केदारघाट, वाराणसी
शुद्धभाद्रपदकृष्ण ε सोमे सं० २०३१
 
श्रीमन्तो लब्धवर्णप्रतिष्ठिता विद्वत्तल्लजाः श्रीकेदारनाथ त्रिपाठिमहा-
भागाः सांख्ययोगशास्त्रे व्यवहृतानां पारिभाषिकशब्दानां कोषं निबबन्धुः ।
यस्मिन् विभिन्नेष्वर्थेषु तन्त्रान्तरे व्यवहृतान् लोके च प्रचलितान् तांस्तान्
शब्दान् केषु केषु अर्थेषु सांख्ययोगाचार्या व्यवहृतवन्त इति विस्तरशः
प्रतिपादयामासुः । तदेतेन कोषरत्नेन बोद्धारो झटित्यर्थंग्रहं लभेरन्निति
अस्य ग्रन्थरत्नस्य प्रचयगमनाय एतेभ्यः श्रीकेदारनाथ त्रिपाठिमहोदयेभ्यो
दीर्घायुष्याय च नारायणस्मरणात्मका: शुभाशीराशयो वितीर्यंन्ते,
शमिति–
 
करपात्रस्वामी