This page has not been fully proofread.

प्रथमस्सर्गः
 
५९
 
अञ्चन्त्यः संमिलन्त्यः प्ररूढा इति यावती । जलनील्य: शैवालानि येषु तादृशानि ।
मन्ये अवै॑मि । स्वर्गङ्गासंगसंगतशैवलवत्तया विभावयामीति भावः । अत्रेन्द्र
नीलशिलाकृतत्वेन श्यामत्वचाकचक्यादिविशिष्टेषु सौधाग्रेषु सन्ततगङ्गासंगज-
नितशैवलसंवलितत्वरूपधर्मोत्प्रेक्षा ॥ ५७ ॥
 
व्रीडातिरेकाद्विनमन्मुखीनां कन्यामणीनां परिणीतिकाले ।
 
हर्म्येषु यस्यामतिलङ्घिताभ्रेष्वस्त ध्रुवलोकनमयासात् ॥ ५८ ॥
 
ब्रीडेति - यस्यां द्वारवत्याम् । परिणीतिकाले विवाहसमये । प्रवेशहोमोत्तर-
• वाङ्नियमनान्ते "आनक्षत्रेभ्य उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य
उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति" इति विहितध्रुवप्रदर्शनावसर इति
भावः । ब्रीडातिरेकात् लज्जातिशयात् । विनमन्ति स्वयमेवावनतानि मुखानि
वदनानि यासां तादृशीनाम् । "स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्" इति ङीष्प्रत्ययः ।
कन्यामणीनां कुमारीतिलकानाम् । ध्रुवालोकनं तत्कालकर्तव्यतया विहितं ध्रुव-
दर्शनम् । अतिलङ्घितं अतिक्रान्तं अभ्रं गगनं यैस्तादृशेषु । गगनान्तःपातिध्रुव-
मण्डलातीतेष्विति भावः । हर्म्येषु प्रासादेषु । अप्रयासात् अनायासेन । ध्रुवस्य
तस्मादधोभावितया लज्जाविधूननेन मुखोन्नमनादिक्लेशं विनैवेति भावः । आस्त
अभूत् ।
आस उपवेशने" इति धातोरात्मनेपदे लङ् । इत्थं ध्रुवदर्शने
संपन्ने तस्मादधोगताया अरुन्धत्या दर्शनं कैमुत्यन्यायाल्लभ्यत इति भावः ।
अत्युक्तिरलङ्कारः ॥ १८ ॥
 
८८
 
सौधेषु यस्यां सुदृशः शशाङ्के गण्डोपधानभ्रमतः कपोलौ ।
तन्वन्ति रात्रीषु तदङ्गलग्नं कस्तूरिकाचित्रकमङ्कदभात् ॥ ५९ ॥
सौधेष्विति – यस्यां द्वारवत्याम् । सौधेषु प्रासादेषु । रात्रिषु निशासु ।
सुदृश: शोभना विषयग्रहणचतुरा इत्यर्थ: दृश: यासां तादृशा : वनिता: । तथा-
1 सौधेषु ।
 
2 In the printed edition of the Apastamba Grhya Sutra the
portion आ नक्षत्रेभ्य: belongs to sutra 11 of kanda 6 and the other
portion is found as sutra 12.