This page has not been fully proofread.

५८
 
रुक्मिणीकल्याणे सव्याख्याने
 
यस्याः समायोजितखेयकाचे रुड्याणमुद्दाममवैमि सालम् ।
रत्नार्गला रंभितरम्य' कीलमुखं मणीगोपुरमप्यमुष्य ॥ ५६ ॥
 
यस्या इति – समायोजिता सर्वतोनित्रद्धा खेयं परिखैव काञ्चिः मेखला
नितम्बधार्यभूषाविशेषः यस्यास्तादृश्याः । "खेयं तु परिखाधारस्तु" इति, "स्त्रीकट्यां
मेखला काञ्ची " इति चामरः । यस्याः द्वारवत्याः मेखलालंकरणे अनुपदमुड्याणा-
पेक्षासंभवादिति भावः । उद्दामं उच्छ्रितम् । सालं प्राकारं कर्म । उड्याणं

मेखलोपरि मध्यधार्यभूषाविशेषम् । तद्रूपमयमिति भावः । तथा मणीगोपुरं
मणिमयं पुरद्वारसौधमपि । " पुरद्वारं तु गोपुरम्" इत्यमरः । अमुष्य
उड्याणस्य । रत्नमय्या अर्गळया कवाटविष्कंभेन आरम्भितं संपादितं
रत्नार्गळारूपमिति भावः । रम्यं रमणीयं कीलं भूषासन्धिघटनविघटनानुकूल-
शङ्कुविशेषः यस्य तादृशं मुखभागं कोटिद्वयसंघटनाहरत्नादिमण्डितभूषाग्र-
भागमिति भावः । अवैमि मन्ये, उड्याणत्वेन तन्मुखत्वेन च संभावयामीत्यर्थः ।
अवपूर्वात् "इण् गतौ " इति धातोट् । अत्र परिघात्मककाञ्चीधारिण्या नगरी-
युवत्या उड्याणतादात्म्यस्य साले तथा रत्नार्गळाख्यकीलोपलक्षितोड्याणमुख-
भागतादात्म्यस्य मणिगोपुरे च संभावना स्वरूपोत्प्रेक्षा पूर्वा खेयस्य काञ्चीत्वरूपणेन
नगर्या नारीत्वरूपणाभिव्यक्तिरूपैक देशविवर्तिसावयवरूपकोत्थापिता द्वितीया
त्वर्गलायां कीलत्वारोपरूपरूपकोत्थापितेति रूपक संकीर्णयोरनयोः संकरः ॥
 
८८
 
मन्ये मरुत्वन्मणिनिर्मितानि शिरोगृहाणां शिखराणि यस्याम् ।
त्रियन्नदीवीचिभरानुषङ्गाद जस्र मञ्चज्जल 'नीलिकानि ॥ ५७ ॥
 
मन्य इति – यस्यां द्वारवत्याम् । मरुत्वन्मणिभिः इन्द्रनीलरतैः निर्मितानि
रचितानि । शिरोगृहाणां चन्द्रशालानाम् । शिखराणि शृङ्गाणि कर्म । अजस्त्रं
अनवरतं अविच्छेदेनेति यावत् । वियन्नद्याः स्वर्गङ्गायाः वीचिभरैः तरङ्गपरंपराभिः
सह अनुषङ्गात् संसर्गात् निमित्तात् । प्रासादानां स्वर्गातिशायित्वादिति भावः ।
 
1
 
4
 
उद्यान.
 
अमुष्याः.
 
2 लम्बित.
 
5
 
यस्याः,
 
3 कीलं मुखम् .
 
6
 
नीलितानि,