This page has not been fully proofread.

प्रथमस्सर्ग:
 
वृद्धिकरी सकलाभ्युदयस्थानभूता । विख्यातेः प्रसिद्धेः विस्तारोऽतिशयस्सोऽस्या
इति तादृशी । अतिप्रसिद्धिशालिनीत्यर्थः । विख्यातेति पाठे विख्यातः प्रसिद्धः
विस्तार : परिणाहः सोऽस्या इत्यर्थः । अतिविशालतया जगत्प्रथितेति भावः । पुरी
नगरी । जगत्यां भुवने । द्वारवतीति प्रकृष्टद्वारशालिनी इति । एवं अखिलनगराति-
शायिताष्टादशद्वारोपलक्षिततयेत्यर्थः । अभिख्यां अन्वर्थनामधेयम् । वितन्वती
विस्तारीकुर्वाणा सती । अस्ति वर्तते । भगवतो वैकुण्ठगमनानुपदमेव सामुद्र-
सलिलाप्लुतत्वेऽपि सकलनगरातिशाय्यपरिमितविभवोपलक्षिततयातिप्रख्याति
मत्तया "नरः पतितकायोऽपि यशःकायेन जीवति " इति न्यायेन प्रसिद्धतयाद्यापि
परिदृश्यमानेव प्रतीयत इति भावः । तेन भूतभाव्यर्थसाक्षात्काररूपभाविकालंकार:
प्रतीयते । छेकानुप्रासरूपकसंसृष्टिः ॥ १४ ॥
 
वसुन्धरायां वसुधाधिनाथैः सुखं धृतायां सुचिरं यदीयैः ।
प्राकारात्परिखापथेन प्राप्त समुसते फणीन्द्रः ॥ ५५ ॥
 
वसुन्धरायामिति -- यदीयैः द्वारवतीसम्बन्धिभि: । तन्निवासिभिरित्यर्थः ।
वसुधाधिनाथैः भूपैः । वसुन्धरायां भूमौ । सुखं अनायासेन स्वेतरपालकानपेक्षमिति
भाव: । सुचिरं बहो: कालात् । वृतायां पालितायामित्यर्थः । फणीन्द्रः शेषः
निखिलभूभरणाधिकृत इति भावः । समुछ्रासकृते विश्रमाय । परिखैव खेयमेव पन्थाः
मार्ग: तेन । परिखाया आपाताळव्यापित्वादिति भावः । परितः खन्यत इति
परिग्वा । "अन्येष्वपि दृश्यते" इति उप्रत्ययः । प्राकारो वरणः इति दंभात् कपटात् ।
"कपटोऽस्त्रीव्याजदंभोपधयः" इत्यमरः । प्राप्तः समागतः भुवमिति भावः । चिरात्
भूभरणखिन्नो यत्र क्वचिन्निजभारावतरणमाशासानस्संप्रति भारापनये संपन्ने गुहारूपं
स्वावासमपहायातिविस्तृतां प्रवातादिना विश्रमाही भुवमुत्पतितश्शेष एवायमिह
कुण्डलितेन पुन: प्राकार इति भावः । अत्र राजकृतभरणे सुखमिति शेषागमने
समुच्छ्रासकृत इति कथनादत्रत्यभूपानां शेषादाधिक्यप्रतीत्या व्यतिरेको व्यज्यते ।
नगरप्राकारे तथात्वं दंभपदेनापनुत्यात्युन्नतत्वधवळत्वकुण्डलाकारत्वादिधर्म-
साम्येन भूभारवहनसंपन्नश्रमापनोदार्थागतफणीन्द्रत्वारोपादपह्नवालंकारः
 

 
ww
 
1 G. चिरम् .
 
8
 
॥५५॥
2 G. रुचिरम् .