2023-03-26 16:29:14 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
४९
तया शिवाय मङ्गळाय दोषापाकृतये श्रीरामसेतौ सिन्धौ अवभृथं स्नानं व्यधत्तेति
केचित् ॥ ४१ ॥
दिनेदिने दीनकृतानुकम्पो दीनारजातानि दिशन्भृशं यः ।
ग्रामागुणग्रामनिकापरावान्यारेसहस्रं प्रददौ बुधेभ्यः ॥ ४२ ॥
दिनेदिन इति — दीनेषु दरिद्वेषु विषये कृता विहिता अनुकम्पा दया येन
तादृशः य: अच्युतभूपः दिनेदिने प्रतिदिवसं अविच्छेदेनेत्यर्थः। बुधेभ्यः
पण्डितेभ्य:, ज्ञानवत्तया दानपात्रभूतेभ्य इति भावः । दीनाराणां निष्काणां
जातानि निचयान् । भृशं अतिशयितं यथातथा अर्थिनामाशंसितादप्यधिकतयेति
भावः । दिशन् वितरन् सन्, तत्तत्कुटुम्बोपलालनपर्याप्तादधिकं दिशन्नपीति
भाव: । गुणानां अनूषरत्वमधुरोदकत्वादीनां क्षेत्रगुणानां ग्रामै: सन्दोहै:
निकामं अत्यन्तं रामान् रमणीयान् । गुणवत्तया निर्दुष्टतया सर्वजनाशंसनीयानिति
भावः । पारेसहस्रं सहस्राधिकसंख्याकान् । "पारे मध्ये षष्ट्या वा" इति सूत्रेणाव्ययी
भावः । पूर्वपदस्यैदन्तत्वं तु निपातनादवसेयम् । ग्रामान् बीजावपनसस्या-
रोपणार्हक्षेत्रमालोपलक्षितान् विषयान् प्रददौ दत्तवान् । प्रपूर्वाद्ददातेर्लिट् ।
दैनन्दिनदानसंवर्धिताशेषविबुचवर्गोपि शाश्वतब्रह्मप्रतिष्ठासिये पूर्वोक्तमहादान-
व्यतिरेकेणापि अनेकसहस्रसंख्यान् ग्रामानेव ब्राह्मणेभ्य: प्रत्येकमदादिति भावः ।
उदात्तालंकार: " उदात्तमृद्धिचरितं श्लाघ्यं वान्योपलक्षणम्" इति लक्षणात् ।
अनुप्रासेन संसृष्टि: ॥ ४२ ॥
भूषामशेषां भुवनैकमूल्यां भद्रासनं भव्यमणिप्रणीतम् ।
ग्रामाननेकानपि गाढभक्तिश्रीरङ्गधाम्नेऽदित यो महिम्ने ॥ ४३ ॥
—
भूषामिति – य: अच्युतभूप: । गाढा दृढा अनन्यविषया अविच्छिन्ना
चेति यावत् । भक्तिः देवविषयिणी अभिरतिः प्रकरणात् रङ्गनाथ विषयिणीति
लभ्यते । यस्य तादृशस्सन् श्रीरङ्गधाम्ने श्रीमत् रङ्गे रङ्गाख्यं नगरं श्रिया लक्ष्म्या
विहारस्थानतया । श्रीरङ्गाख्यं वा धाम स्थानं यस्य तस्मै श्रीरङ्गक्षेत्रे शेषशयन-
7