This page has not been fully proofread.

४८
 
रुक्मिणीकल्याणे सव्याख्याने
 
सतीति भावः । जगति भुवने प्रजानां पालने रक्षणे विषये जागरूका निर्निद्रा
अनवरतान्नदानेन सर्वप्रजापालनार्थं कृतावतारेत्यर्थः । देवी अन्नपूर्णाभिधाना
गौरी । चिह्नतयैव लाञ्छनरूपतयैव मूर्त्यन्तर भेदग्रहणसाधनत्वेनैव न पुनरन्तः
[न] परिवेषणसाधनतयेत्यर्थः तस्यान्यतो लब्धत्वादिति भावः । दव परि-
वेषणसाचनजा [ज्या ?] भिधानपात्रविशेषं दधौ बभार । दधाते: परस्मैपदे लिट् ।
अत्र यद्यपि निखिलभुवनरक्षादीक्षिताया देव्या भारतवर्षमात्ररक्षकान्तरसंभवमात्रेण
न स्वव्यापारवैकल्य संभवति । तथापि क्षुदभिभूतभारतवर्षमात्र एवान्नस्य दातव्य-
तया तस्यान्यतः सिद्धौ देव्याः कर्तव्याभावो युज्यत एव । अत एव दवमात्रस्यैव
चिह्नत्वमापादितम् । न पुनरन्यस्य पाशाङ्कुशादेरत्र निरन्तरान्नदाननिरते
भूपतौ देव्या दर्वीधार [ण] स्य चिह्नरूपतया व्यक्ति भेद्ग्रहमात्रफलकत्वप्रतीत्या
फलोत्प्रेक्षा सापह्नवा । व्यञ्जकाभावात् गूढा । राज्ञ एवपूर्णा कार्यचूर्वहत्वेन
देव्यां कैमर्थ्यव्यञ्जनात् प्रतीपालंकारो व्यज्यते ॥ ४० ॥
 
महान्ति दानानि महीसुराणां कुर्वन्नखर्वाशयमानुपूर्व्यात् ।
श्रीरामसेतावनुहायनं यस्सिन्धौ शिवायावभृथं व्यधत्त ॥ ४१ ॥
 
महान्तीति -- य: अच्युतभूप: अखर्वः दीर्घः अकुण्ठित इति यावत् ।
आशय: अभिप्राय:, निरन्तरदाने उत्कटेच्छेति भावः, यस्मिन् कर्मणि । तथा
महीसुराणां ब्राह्मणानां, सम्बन्धसामान्ये षष्ठीविधानात् । संप्रदानत्वविवक्षया
ब्राह्मणेभ्य इति यावत् । महान्ति महाद्रव्यसाध्यतया महद्भयः प्रदेयतया महद्भिः
कर्तव्यतया महाफलकतया च उत्कृष्टानि दानानि तिलपर्वतादिषोडशविधतया
तदन्यविध [त] या च स्मृत्यादिचोदितकल्पानुसारेण प्रसिद्धानि । आनुपूर्व्यात् विहित
क्रमानुसारेण । कुर्वन् निर्वर्तयन् सन्नेव श्रीरामसेतौ दाशरथिनिबद्ध सेतुमध्ये शिवाय
श्रीराघवप्रतिष्ठापितलिङ्गे कृताविष्करणाय महेशाय रामनाथायेत्यर्थः । अनुहायनं
प्रतिसंवत्सरम् । सिन्धौ सागरे । अवभृथं उत्सवान्ताभिषवम् । व्यवत्त अन्तर्भा-
वितणिजन्ततया अकारयदित्यर्थः । सकृन्महादानानि संकल्प्य प्रतिवर्ष सेतुं गत्वा
महादेवस्य महोत्सवमुपक्रम्य तदन्तरा महादाने वेकैकमभिनिर्वर्त्यावभृथमारचय्य
स्वयमुभयविधमभिषवमकरोदिति भावः । प्रतिवर्षमेकैकं महादानमारचय्य तदङ्ग -