This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
अजायतेति – अस्मात्पूर्वोदितात् चिनचेव्वभूपात् मूर्त्यम्बिकायां मूर्ति-
नाम्न्यां महिष्याम् । महिते श्लाघनीये चक्रवर्तिजननस्वरूपयोग्ये । मुहूर्ते लग्ने ।
अयं प्रसिद्धः । अयमिति प्रत्यक्षनिर्देशात् रघुनाथनाम्नि पुत्रे विनिहितराज्यतन्त्र
इदानीं वर्तमान इति व्यज्यते । यद्वा तत्कृतदेवब्राह्मणप्रतिष्ठादीनां अद्य परिदृश्यमान-
तया "नर:पतितकायोपि यशः कायेन जीवति" इति न्यायेन प्रत्यक्ष निर्देश: । अच्यु-
तेन्द्रः अच्युतनामा इन्द्रः, परमैश्वर्य इति राजाधिराज इयर्थ: । यद्वा अच्युत इन्द्र
इवेति इन्द्रतुल्यप्रभाव इत्यर्थ: । अजायत अभवत् । " जनी प्रादुर्भावे " इति
धातोर्लङ् । यस्य अच्युतभूपस्य आज्ञापनचीटिकाशासनलेख: निदेशाक्षरयुक्ता
चीटीति भावः । सामन्तानां सपत्नानां राज्ञामित्यर्थः । चूडाभुवि मकुटदेशे ।
केतकीनां विलासार्थविच्छुरितकैतकदलानां सखी सहचरी तथाविधया केतक्या
सह किरीटप्रान्ते भक्तिभारेण निक्षिप्तेति स्थानतो वर्णतः परिमाणेन च केतकी-
सहक्षेति भावः । तेनास्य सामन्तानां च महिमातिशये महदन्तरमिति व्यज्यते ।
अत्र सखीति निर्देशेन सादृश्यस्यार्थात् प्रतीत्या आर्थी उपमा ॥ ३७ ॥
 
यशःपयोभिर्भरिताद्यदीयैर्ब्रह्माण्डभाण्डाद्वहिरुलसद्भिः ।
प्रायेण तादृक्षभुजप्रतापैर्वोभूयते भूरिनवप्रवाळः ॥ ३८ ॥
 
-
 
(6
 
८८
 
यश इति – यदीयै: अच्युतभूपसम्बन्धिभिः यशःपयोभिः कीर्तिदुग्धैः
भरितात् पूरितात् ब्रह्माण्डं विध्यण्डमेव भाण्ड: पात्रविशेष: तस्मात्
अङ्कुरणार्थबीजसे चकपात्रादिति भावः । बहि: ऊर्ध्वं उल्लसद्भिः उद्गतैः
ब्रह्माण्डमभिव्याप्य तद्बहिः प्रविसारिभिरित्यर्थः । तादृक्षस्य अनिर्वचनीयस्य
निखिलशत्रुनिग्रहकारितया प्रख्यातस्येत्यर्थः । दृशिर् प्रेक्षणे " इति धातोः
" दृशे : स: " इत्यौणादिके कर्तरि सप्रत्यये " दृक्षे च" इति गर्तिकेन तच्छन्द-
स्याकारातिदेशे तादृक्षः । भुजप्रतापैः बाहुपराक्रमैः कर्तृभिः । भूरि अपरिमितैः नवैः
नूतनैः प्रवालैः किसलयैः नवप्रवालात्मनेत्यर्थः । बोभूयते संभूयते । "भू सत्ता-
याम् " इति धातोः यङन्ताद्भावे लट् । तदीयभुजशौर्यरूपं बीजं तदीयौदार्यादि-
प्रशंसारूपेण निखिलब्रह्माण्डव्यापिना यशःपयसा समुछ्वसितं सदकुरीभूय ततो
नवप्रवालतामभ्येत्य ब्रह्माण्डाद्बहिः प्रसृतमित्यर्थः । अङ्कुरावस्थायामेवैवं
 

 
४६