This page has not been fully proofread.

४४
 
अथ तमेव द्वाभ्यां यत्तद्भया मेकान्वयेनाह-
यस्य त्रिलोकीमणिहारष्ट्या मध्ये महानायकभावभाजः ।
कदापि न त्रासकथेति युक्तमत्यद्भुता यातरलत्वशैली ॥ ३५ ॥
 
यस्येति – त्रिलोकी त्रैलोक्यमेव मणिमयी रत्नमयी हारयष्टिः एकावली
नाम हारवरः । तस्याः मध्ये मध्यभागे महानायकभावं सर्वाधिपत्यम् । अन्यत्र
हारमध्यमणित्वम् । "मध्यरत्ने नेतरि नायकः" इत्यमरः । भजति प्राप्नोतीति तादृ-
शस्य यस्य चिनचेञ्चभूपस्य तथाविवस्य रत्नवर्यस्य च त्रासकथा भीतिवार्ता ।
अन्यत्र त्रासाख्यरत्नदोषप्रस्तावः । न नास्ति इति एवंरूपजनवचनमित्यर्थः । युक्तं
अनुरूपं सर्वाभ्युपगमनीयमिति भाव: । त्रैलोक्याधिपत्यचूर्वहस्य कस्माच्चिद्भीतेः
दोषलेशविकलस्यैव हारमध्यमणित्वस्य सर्वसिद्धत्वे तथाविधस्य दोषप्रसक्तेश्च
दूरापास्तत्वान्नेदं चित्रमिति भावः । या प्रसिद्धा सांप्रतं सर्वजनविदितेत्यर्थः ।
अतरलत्वशैली विषयलोलताविहीनत्वस्वभावः । अन्यत्र हारमध्यमणिभिन्नत्व -
स्वभावः । "तरळो हारमध्यगः इत्यमरः । अत्यद्भुता अत्यन्तविस्मयकारिणी
नायकमणित्वभाज एव न तथाविधत्वमिति विरुद्धमिति भावः । राजपक्षे त्रिलोकाधि
पत्यभाजो विषयचापलताराहित्यं तु युक्तमेवेति भावः । यत्तदोर्नित्यसम्बन्धात् स
इत्यव्याहार्यम् । स आसीदिति पूर्वेणान्वयः । पादत्रयार्थे समालंकार: । "समं
स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयो: " इति लक्षणात् । तुर्यपादे नायकमणिपक्षे
प्रसक्तस्य विरोधस्य राजपक्षे परिहाराद्विरोधाभास: । "आभासत्वे विरोधस्य
विरोधाभास इष्यते " इति लक्षणात् । द्वयोरेकान्वयितया संसृष्टिः ॥ ३५ ॥
 
"
 
66
 
रुक्मिणीकल्याणे सव्याख्याने
 
to be traced.
 
यत्नं विना यस्य यशोपदेशसुधानुलिप्ते सुरनाथसौधे ।
प्रायः प्रवालद्रवलेपभङ्ग प्रतापभूमा प्रचुरीकरोति ॥ ३६ ॥
 

 
यत्नमिति – सुरनाथस्य इन्द्रस्य सौधे वैजयन्ताख्ये प्रासादे यत्नं विना
प्रयासमन्तरा शर्करासंपादनतदुत्तापनादिश्रमलेशमन्तरेणेति भावः । यस्य राज्ञः
1G. यष्ट्यां
 
2 In the printed editions of the Amarakos'a this extract is not
 
3 G. प्रकटी.
 
m