This page has been fully proofread once and needs a second look.

उपजायतैवेत्यर्थः, इन्द्रेणापि समासादित इति भावः । ततश्च सारस्वतसर्व मर्मवेदिना सकलदेवदैत्याद्यनुल्लङ्ङ्घनीयशासनेन सकलसप्तकोट्यप्सर स्संघादप्यतिशायिन्या श्रियः संग्रहेण पारिजातसारतरवस्तूपसंग्रहाभिलाषेण
भगवतापि परिगृहीतात् कौस्तुभादत्यन्तातिशयितश्चिन्तामणिरिन्द्रकृतसु चरितपरिपाकेनैवोदभवत् । न पुनर्भगवतोऽप्यतिशयितप्राभववता मघवता लब्ध: । एवं मत्कृतसुकृतपरिपाकवशात् पूर्वतनाशेषकविमनीषाविषयोऽ- प्यर्थ: संपत्स्यत एव । यदि त्विन्द्रकृते भगवता कृपावशादवशेषितश्चिन्ता मणिः स्यात्तर्हि मत्कृतेप्यद्भुता च परिकल्पनापूर्वैरवशेषिता किं न स्यादिति भावः । अत्र वाक्यद्वये जायेत जात इति सामान्यधर्मस्य द्विरुपा- दानात् प्रतिवस्तूपमालङ्कारः । " सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । इवादेरनुपादाने प्रतिवस्तूपमः मता ॥" इति लक्षणात् ॥ ३३ ॥
अथानुबन्धचतुष्टयवत् देशकालप्रतिपत्तेरपि प्रेक्षावत्प्रवृत्तिनिमित्ततया
केवलायास्तस्याश्चमत्कृत्यजनकतया तादात्विके राजन्यभिहिते देशकालप्रतीतिः सुलभेति प्रकृतप्रबन्धरचनाकालिकं राजानं पित्रादिक्रमेण प्रपञ्चयति-
आसीदशेषाहितभूमिपालशासी शुनासीरसमप्रभावः ।
तिम्मावनीनायक {^१}वर्यमाम्बाजन्मासुधर्मा {[^२}2] चिनचेव्वभूपः ॥ ३४ ॥
आसीदिति – अशेषान् निखिलान् [आहित] भूमिपालान् [शत्रु ] पार्थिवान् शास्ति निगृह्णातीति तादृशः शुनासीरस्य इन्द्रस्य प्रभावेन सम: तुल्यः
प्रभावः ऐश्वर्यं यस्य सः तादृशः । सप्तम्युपमानपूर्वपदस्यबहुव्रीहिः । "वाच्यो
वा चोत्तरपदलोपश्च" इति वार्तिकात् शुनासीरपदोत्तरोपमानवाचकप्रभाव- पदलोपः । "वृद्धश्रवाश्शुनासीरः " इत्यमरः । तिम्मावनीनायकस्तिम्मा- भिधानो राजा । वर्यमाम्बानाम तन्महिषी ताभ्यां जन्म उत्पत्तिः यस्य स तादृशः । तेन राजपरंपराजातत्वं व्यज्यते । सु शोभन: सर्वजनाशंसनीय इति यावत्,धर्मः प्रजापालनादिर्यस्य । "धर्मादनिच् केवलात्" इति धर्मशब्दान्तस्य बहुव्रीहेरनिजादेशे सुधर्मा । नाम्नायं चिनचेव्वभूपः चिनचेव्वाख्यो राजा आसीत् । अस्तेर्लङ् । उपमालङ्कार : वृत्त्यनुप्रासेन संसृष्टिः ॥ ३४ ॥
 
 
{[^१}1] G. वैय्यमा,
{[^२}2] G., A. चिनचेप्पभूपः ।