This page has been fully proofread once and needs a second look.

४२
 
रुक्मिणीकल्याणे सव्याख्याने
 
पुनः पूर्वतनकविगोचरतामनापन्नया तदतिशायिन्या भवितव्यमन्यथा चर्वित-
चर्वणरूपतया अलंबुध्या च सहृदयहृदयाह्लादः प्रेक्षावतां प्रवृत्तिश्च न भवेदेव
सर्वपूर्वकविभिरनुद्भावितस्तदतिशायी चेहत्योऽर्थ इत्येतदप्य संभावितमेव पूर्वेषां
काळिदासादीनां सर्वज्ञत्वादानन्याञ्त्याच्चेत्याशङ्कां मनसि निधाय सर्वपूर्वक विचर्वणा-
गोचरस्तदतिशाय्येवार्थ इह निबध्यत इति सदृष्टान्तमाह
 
-
क्षुण्णेऽपिसाहित्यपथे कवीन्द्रैः पुण्येन जायेत नवार्थसृष्टि ।

किं पद्मनाभाहृतकौस्तुभेऽपि चिन्तामणिस्सिन्धुपतौ न जातः ॥
 

क्षुण्ण इति - साहित्यपथे सारस्वतमार्गे । "ऋक्पूरब्धूः पथामानक्षे" इत्य-

प्रत्ययः । कवीन्द्रैः कविश्रेष्ठैः क्षुण्णे मृदिते सत्यपि; मृदितत्वं च साहित्य- पदव्या
बहुतरजनपदनिरन्तरनिक्षेप निनिंर्मृष्टतृणगुल्मादितया विस्तरीभूततया च सर्वेषां सुख-
वेद्यत्ववत् सारस्वतमर्मसर्वस्वोद्धाटनेन सर्वत्वेद्यत्वम्, तस्य चार्थस्य पूर्वैरेद्यत्वम् तस्य चार्थस्य पूर्वेरेव
निर्व्यूढत्वादिति भावः । पुण्येन सुचरितेन पूर्वार्जित सुकृतपरिपाकेन मदीयेनेति
भावः । तेन स्वस्य पूर्वातिशायिप्रतिभादिमत्तया गर्वातिशयो निरस्यते । नवा
नूतना अन्यैरनाघ्रातपूर्वेति भावः । अर्थस्य उत्प्रेक्षादिविषयस्य सृष्टि: कल्पना
जायेत संपद्येत संपत्स्यत एवेत्यर्थः । तेनात्रत्यस्य सर्वस्यार्थस्यादृष्टचरतया
जा
नानुपादेयत्वसंभावना भवेदिति व्यज्यते । तर्हि वाल्मीकिकालिदासादीनामल्प-
ज्ञत्वं प्रसज्येतेल्त्यमुमर्थं दृष्टान्तेन समर्थयन्नाह । किमिति पद्मं नाभौ यस्य तेन तेन
च क्षीरोदश- यनावस्था व्यज्यते । तेन च तत्रव्त्यसारासारस कलवस्तुविवेचकत्वसर्व-
सर्व
स्वतन्त्रत्वादयो व्यज्यन्ते । तादृशेन भगवता आहृतः स्वयमेव परिगृहीतः

न तु केनचिद्दत्तोनुमतो वा । कौस्तुभ: कौस्तुभाख्यः सर्वातिशायी मणि- विशेषः
यस्मात्तादृशेऽपि सारांशग्रहणेन निस्सारीकृततयावभासमानेऽपीति भावः ।
सिन्धुपतौ क्षीरसागरे । चिन्तामणि : चिन्तापूरको मणि: । शाक- पार्थिवादित्वात्स-
मास: । {^१} जनपरिचिन्तनमात्रादेव सकलाभीष्टप्रदत्वेन प्रख्यात इति भावः ।
तेन प्रकाशमात्रफलकात् कौस्तुभादाधिक्यं व्यज्यते । न जातः किं नाजनिष्टकिम् ।
 

 
7
 
1

 
 
{^१}
The manuscript has aअर्थं before faजनपरिचित etc., but it seems to
be a mistake.