This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
66
 
उच्यते ।
 
श्रीकृष्णस्य । तदुक्तं विष्णुपुराणे ---- " स एव वासुदेवोऽयं साक्षात्पुरुष
उच्यते । स्त्रीप्रायमितरत्सर्वं जगदेतच्चराचरम् " इति ॥ चरित्रस्य रुक्मिणी परिणयनादिरूपस्य
संकीर्तनं कथनमेव भाग्यं भागधेयं ; तत्र लोभात् औत्सुक्यात् भगवद्गुणकीर्तनस्य
भाग्यत्वरूपणात् तदितरनैस्पृह्यं व्यज्यते । साहित्यस्य सिन्धुः कवितार्णवं सहसा
सत्वरं साध्यासाध्यविचार- मन्तरेत्यर्थः । भूयिष्ठधनार्थिनां "न साहसमनारुह्य
नरो भद्राणि पश्यति" इति न्यायेन द्वीपान्तरेभ्यो धनाहरणाय समुद्रयात्राया
दृष्टचरत्वेऽपि तरण- साधनतरिकस्य धारादिकमनपेक्ष्यैवेति भावः । तितीर्षोः
तर्तुमिच्छोः यथाभि मतमभिमतप्रबन्धपरिपूर्तिकामस्येति भावः । परमपुरुषार्थ-
भूतमोक्ष- निर्वाहस्य भगवच्चरितोपवर्णनस्य कैमुत्यन्यायेन नान्तरीयकग्रन्थान्तराय-
निरासपूर्वकप्रकृतप्रबन्धपरिसमाप्त्याद्यैहिक फलावाप्तिसाधनत्वं न विहन्यत इति
भावः । ईदृशस्य मम मे तत्कटाक्षः तस्य वर्णनीयस्यैव कृष्णस्य कटाक्षः सानु-
ग्रहापाङ्गवीक्षणं सांयात्रिक: कर्णधार : स्यात् । "अस भुवि " इति धातोराशिषि,
लिङ् । अत्र भगवतः तत्पदेनोपादानात् स्वीयां चरितोपवर्णनप्रतिहतितिं स्वयं कि
मर्षयेत् न मर्षयेदिति व्यज्यते । तेन च यथा हि बहुधनादिकामः
सांयात्रिकसहायमासाद्यार्णवतरणपूर्वकमखिलम- प्यभीष्टमवाप्नोत्येवमहमपि भगव-
त्कटाक्षमहिम्ना प्रतिभादिशक्तितिं प्रतिबन्धक निवृत्तितिं प्रकृतग्रन्थपरिपूर्तितिं च लभेय-
मेवेति च व्यज्यते । इत्थं च "पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् "
इति स्मृत्या भगवच्चरितवर्णनात्मक- स्यास्यैव प्रबन्धस्य स्वतः परममङ्गलतया
विनायकप्पूजायां तदन्तराय निवर्तकतत्पूजानपेक्षणवत् इतो मङ्गलान्तरमकिञ्चि-
त्करमिति मत्वा स्वाचरितमङ्गलानां शिरस्यस्य निवेशनं पद्यादौ पवित्रपद -
सञ्चिन्तनमिति च मन्तव्यम् । समस्तवस्तुविषयकं सावयरूपकमलङ्कारः ॥३१॥
 

 

नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामध्प्य-
`

{^१}
वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवण्र्ण्यत्वं संभवेदित्यत आह—
 
४०
 

हरेरपारे गुणवारिराशौ कणं {^२}गृणन्तोऽपि वयं कृतार्थाः ।
 

पृषन्ति सिन्धोः पयसां{^३} कियन्ति घना {^४}गृहीत्वा हि घना भवन्ति ॥
 
1

 
{^१}
The original has अवाचमनस but it is probably a scribal error.
2

{^२}
A. पिबन्तो.
3

{^३}
G. पयसा
4

{^४}
G. गृहीत्वाति घनाः.