This page has been fully proofread once and needs a second look.

ननु भवत्काव्यस्यासमीचीनत्वे गुणैकनिष्ठाः साधवः कथमुपलालयेयुः ।
अतो दृष्टान्तमुखेन समर्थयति । हि यस्मात् सन्तः साधवः वक्रे कुटिलेऽपि
वाच्यातिशायिव्यङ्ग्यतया गूढव्यङ्ग्यतया चात्यन्ततिरस्कृतवाच्येऽपीति भावः ; काव्ये प्रबन्धे वक्रे धनुषि कुटिले चापे शूरा इव योद्धार इव प्रायः प्रायेण । भूय इति पाठेप्ययमेवार्थः । अतिशयेनेति च व्यज्यते । गुणानां माधुर्यादीनामारोपः कल्पनं कवितात्पर्यविषयस्याप्यर्थस्यापातपतित पदप्रतिपाद्यतया कथनं आरोपः समन्ततस्तत्रत्यविवेचनमिति च व्यज्यते । सः परो मुख्यः स्वनिर्वाह्योर्थः येषां तादृशाः भवन्तीति शेषः । शूरपक्षे गुणस्य मौर्व्या: आरोपपरा इत्यर्थः । अतो निर्गुणेऽपि गुणारोपणशीला: साधवः सर्वथा परिगृह्योपलालयन्त्येवेति भावः ॥
वस्तुतस्तु एकतरकोटिनिबद्धस्यैव गुणस्य कोटयन्तरप्रापणस्यारोपपदार्थ-
तया तद्दृष्टान्तानुरोधेन सत एव गुणस्य उद्धाटनमिह विवक्षितम् । अतोऽस्य भावगर्भितत्वेन भावानभिज्ञानामभिज्ञानां वा पातदृष्टिकृतां क्वचित् सानवगमेऽपि साधवः सहृदया: सूक्ष्मदृशा विद्यमानमेव गुणं प्रपञ्चयन्त्विति भावः । न च तर्हि वक्रेऽपीति दोषोद्भावनं कुत इति वाच्यम् । गूढव्यङ्ग्यतया वऋत्वस्य विशेषाधायकत्वात् । अपिशब्दप्रयोगस्तु आपाततोर्थानवगमे गूढदृष्टिप्रवेशनकृतः प्रयासः परं मत्कृते क्षन्तव्य इति कविप्रार्थनामभिव्यनक्ति । नचैवमल्पधीरित्यप्रयोज्यमिति वाच्यम् । अपरिमेयभगवद्गुणार्णवतरणासमर्थत्वाभिप्रायकतया तस्य विनयपर्य- वसितत्वात् । दृष्टान्तानुप्राणितं काव्यलिङ्गमलंकारः । श्लेषोत्थापितो
दृष्टान्त इति संकरः ॥ ३० ॥
अथाचिन्त्याप्रमेयगुणार्णवस्य भगवतो गुणवर्णनस्य भगवत्प्रसादमन्तरा
दुष्करतां मन्वानो भगवत्कटाक्षपातनप्रसादमाकाङ्क्षमाण आह -
पवित्रकीर्ते: [ ^1] प्रथमस्य पुंसश्चरित्रसंकीर्तनभाग्यलोभात् ।
साहित्यसिन्धुं सहसा [^2] तितीर्षोः सांयात्रिकः स्यान्मम तत्कटाक्षः ॥
पवित्रेति – पवित्रा पावयित्री निखिलपापनिहन्त्री कीर्तिर्यश: गुणक्रियादि संकीर्तनं यस्य तादृशस्य प्रथमस्य जगदादिमस्य पुंसः पुरुषोत्तमस्य
 
[^1] G. परमस्य
[^2] G. तरसा.