This page has not been fully proofread.

प्रथमस्सर्गः
 
३९
 
ननु भवत्काव्यस्यासमीचीनत्वे गुणैकनिष्ठाः साधवः कथमुपलालयेयुः ।
अतो दृष्टान्तमुखेन समर्थयति । हि यस्मात् सन्तः साधवः वक्रे कुटिलेऽपि
वाच्यातिशायिव्यङ्ग्यतया गूढव्यङ्ग्यतया चासन्ततिरस्कृतवाच्येऽपीति भावः ;
काव्ये प्रबन्धे वक्रे धनुषि कुटिले चापे शूरा इव योद्धार इव प्रायः प्रायेण । भूय इति
पाठेप्ययमेवार्थः । अतिशयेनेति च व्यज्यते । गुणानां माधुर्यादीनामारोपः कल्पनं
कवितात्पर्यविषयस्याप्यर्थस्यापातपतितपदप्रतिपाद्यतया कथनं आरोपः समन्त-
तस्तत्रत्यविवेचनमिति च व्यज्यते । सः परो मुख्यः स्वनिर्वाह्योर्थः येषां तादृशाः
भवन्तीति शेषः । शूरपक्षे गुणस्य मौर्व्या: आरोपपरा इत्यर्थः । अतो निर्गुणेऽपि
गुणारोपणशीला: साधवः सर्वथा परिगृह्योपलालयन्त्येवेति भावः ॥
 
वस्तुतस्तु एकतर कोटिनिबद्धस्यैव गुणस्य कोटयन्तरप्रापणस्यारोपपदार्थ-
तया तद्द्दृष्टान्तानुरोधेन सत एव गुणस्य उद्घाटनमिह विवक्षितम् । अतोऽस्य
भावगर्भितत्वेन भावानभिज्ञानामभिज्ञानां वा पातदृष्टिकृतां क्वचित् रसानवगमेऽपि
साधवः सहृदया: सूक्ष्मदृशा विद्यमानमेव गुणं प्रपञ्चयन्त्विति भावः । न च तर्हि
वक्रेऽपीति दोषोद्भावनं कुत इति वाच्यम् । गूढव्यङ्ग्यतया वऋत्वस्य विशेषा
धायकत्वात् । अपिशब्दप्रयोगस्तु आपाततोर्थानवगमे गूढदृष्टिप्रवेशनकृतः
प्रयासः परं मत्कृते क्षन्तव्य इति कविप्रार्थनामभिव्यनक्ति । नचैवमल्पधीरित्य-
प्रयोज्यमिति वाच्यम् । अपरिमेयभगवद्गुणार्णवतरणासमर्थत्वाभिप्रायकतया तस्य
विनयपर्यवसितत्वात् । दृष्टान्तानुप्राणितं काव्यलिङ्गमलंकारः । श्लेषोत्थापितो
दृष्टान्त इति संकरः ॥ ३० ॥
 

 
अथाचिन्त्याप्रमेयगुणार्णवस्य भगवतो गुणवर्णनस्य भगवत्प्रसादमन्तरा
दुष्करत मन्वानो भगवत्कटाक्षपातनप्रसादमाकाङ्क्षमाण आह -
पवित्रकीर्ते: 'प्रथमस्य पुंसश्चरित्रसंकीर्तनभाग्यलोभात् ।
साहित्यसिन्धुं सहसा तितीर्षोः सांयात्रिकः स्यान्मम तत्कटाक्षः ॥
पवित्रेति – पवित्रा पावयित्री निखिलपापनिहन्त्री कीर्तिर्यश: गुण-
क्रियादिसंकीर्तनं यस्य तादृशस्य प्रथमस्य जगदादिमस्य पुंसः पुरुषोत्तमस्य
 
2 G. तरसा.
 
1 G. परमस्य