This page has been fully proofread once and needs a second look.

भावः । विरचय्य उत्पाद्य । विपूर्वात् "रच प्रतियत्ने" इति धातोर्हेतुमण्णि- जन्तात् समासे 'अनङ्पूर्वे क्त्वो ल्यप्' इति ल्यप् । शश्वत् प्रतिपदम् । को: भूमेः । "गोत्रा कुः पृथिवी" इत्यमरः । सर्वेषां प्राणिनामिति यावत् । मुदः प्रीते: आनुकूल्यं सहकारित्वम् । अङ्कूरयन्ती उत्पादयन्ती सती स्वयं राजादिमुखेन च सर्वप्राणिसौख्यं विदधाना सतीति भावः । अन्यत्र राज्ञश्चन्द्रस्य प्रसादं नैर्मल्यं विरचय्य शश्वत् कुमुदानां कैरवाणां आनुकूल्यं वृद्धिसाधनतां अङ्कूरयन्ती चन्द्रस्य ओषधीशतया वर्षासंभावितं जलदाव- रणमपोह्य ज्योस्नाप्रसरणेन कैरवाभिवृद्धिसाधनीभूता सतीति भावः । अथ च बहुधा बहुप्रकारेण उक्तविधयान्यविधयापीत्यर्थः । अन्यवृद्धिं परोपकरणं सम्यक् आदधाना कुर्वाणा च सती सर्वात्मना कुर्वन्तीतिभावः । अन्यत्र बहूनां धान्यानां शाल्यादीनां वृद्धिं समादधाना शरत्समय एव
प्रथमं धान्योत्पत्तेर्विख्यातत्वात् । ततश्च शरन्निकाशा शरत्समयसदृक्षा भाति
दीव्यति "भा दीप्तौ " इति धातोर्लट् । श्लेषः उपमाध्वनिः ॥ २९ ॥
अथ महाकवीन् स्वविनयप्रपञ्चनपूर्वमात्मनो ग्रन्थारम्भणमपराधमेव संभावयन्नमून् क्षमापयति-
जल्पामि कौतूहलतो यदल्पधीरप्यहं [^1] तत्कवयः क्षमन्ताम् ।
वक्रे[^2] पि काव्ये धनुषीव शूराः [^3] प्रायो गुणारोपपरा हि सन्तः ॥ ३०॥
जल्पामीति – अहं, अल्पा परिमिता तत्तादृशोत्तमकाव्यरचनाऽचतुरेति
भावः, धी: मनीषा यस्य तादृशोऽपि सन् । तर्हि तत्र तत्र न प्रवर्ततामित्यत
आह — कौतूहलतः । भगवच्चरितसंकीर्तनप्रत्याशया, न पुन- र्विद्वन्मन्यतया [^4] इति भावः । 'आशा गरीयसी पुंसां ' इति प्रसिद्धेः । यत् जल्पामि यत् काव्यं रचयामि " जल्प व्यक्तायां वाचि " इति धातोः परस्मै पदे लट् । तत् अतदर्हकर्माचरणरूपमागः । कवयः कवयितार: अनागता वर्तमानाश्चेति भावः । क्षमन्तां मर्षयन्तु । " क्षमूष् सहने " इति धातोरात्मने पदे लोट् । मदीयमिदं काव्यमुपलालयन्त्विति भावः॥
 
 
[^1] G. अयम् ।
[^2] G. वक्ते ।
[^3] G. भूयः and the commentator also notes it.
[^4] G. The original hasविद्वन्नन्यतया