2023-03-26 16:29:12 by ambuda-bot
This page has not been fully proofread.
३८
रुक्मिणीकल्याणे सव्याख्याने
भावः । विरचय्य उत्पाद्य । विपूर्वात् "रच प्रतियत्ने" इति धातोर्हेतुमण्णिजन्तात्
समासे 'अनपूर्वे क्त्वो ल्यप्' इति ल्यप् । शश्वत् प्रतिपदम् । को: भूमेः । "गोत्रा
कुः पृथिवी" इत्यमरः । सर्वेषां प्राणिनामिति यावत् । मुदः प्रीते: आनुकूल्यं
सहकारित्वम् । अङ्कुरयन्ती उत्पादयन्ती सती स्वयं राजादिमुखेन च सर्वप्राणि-
सौख्यं विदधाना सतीति भावः । अन्यत्र राज्ञश्चन्द्रस्य प्रसादं नैर्मल्यं विरचय्य
शश्वत् कुमुदानां कैरवाणां आनुकूल्यं वृद्धिसाधनतां अकूरयन्ती चन्द्रस्य ओष-
धीशतया वर्षासंभावितं जलदावरणमपोह्य ज्योस्नाप्रसरणेन कैरवाभिवृद्धिसावनी-
भूता सतीति भावः । अथ च बहुधा बहुप्रकारेण उक्तविधयान्यविधयापीत्यर्थः ।
अन्यवृद्धि परोपकरणं सम्यक् आदधाना कुर्वाणा च सती सर्वात्मना कुर्वन्तीति-
भावः । अन्यत्र बहूनां धान्यानां शाल्यादीनां वृद्धि समादधाना शरत्समय एव
प्रथमं धान्योत्पत्तेर्विख्यातत्वात् । ततश्च शरन्निकाशा शरत्समयसदृक्षा भाति
दीव्यति "भा दीप्तौ " इति धातोर्लट् । श्लेषः उपमाध्वनिः ॥ २९ ॥
अथ महाकवीन् स्वविनयप्रपञ्चनपूर्वमात्मनो ग्रन्थारम्भणमपराधमेव संभाव-
यन्नमून् क्षमापयति
जल्पामि कौतूहलतो यदल्पधीरप्यहं तत्कवयः क्षमन्ताम् ।
वक्रे पिकाव्ये धनुषीव शूराः 'प्रायो गुणारोपपरा हि सन्तः ॥ ३० ॥
जल्पामीति – अहं, अल्पा परिमिता तत्तादृशोत्तमकाव्यरचनाऽचतुरेति
भावः, धी: मनीषा यस्य तादृशोऽपि सन् । तर्हि तत्र तत्र न प्रवर्ततामित्यत
आह — कौतूहलतः । भगवच्चरितसंकीर्तनप्रत्याशया, न पुनर्विद्वन्मन्यतया इति
भावः । 'आशा गरीयसी पुंसां ' इति प्रसिद्धेः । यत् जल्पामि यत् काव्यं रचयामि
जल्प व्यक्तायां वाचि " इति धातोः परस्मै पदे लट् । तत् अतदर्हकर्माचरण-
रूपमागः । कवयः कवयितार: अनागता वर्तमानाश्चेति भावः । क्षमन्तां मर्षयन्तु ।
क्षमूष् सहने " इति धातोरात्मने पदे लोट् । मदीयमिदं काव्यमुपलालयन्त्विति
66
८८
भावः ॥
1 G. अयम् । 2G वक्ते ।
4 G. The original has
3 G.
भूयः and the commentator also notes it.
विद्वन्नन्यतया